SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५३६ हेमचन्द्राचार्यविरचितं [३.१४३वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ हसन्ति । वेवन्ति हसिजन्ति । रमिज्जन्ति । गज्जन्ते खे मेहा ॥ बीहन्ते रक्खसाणं च ।। उप्पजन्ते कइ-हिअय-सायरे कव्व-रयणा ॥ दोण्णि वि न पहुप्पिरे बाहू । न प्रभवत इत्यर्थः ।। विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः ॥ क्वचिद् इरे एकत्वेपि । सूसइरे गाम-चिक्खल्लो । शुष्यतीत्यर्थः ॥ . मध्यमस्येत्था-हचौ ॥ १४३ ॥ त्यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच् इत्येतावादेशौ भवतः ॥ हसित्था । हसह । वेवित्था । . वेदँह ॥ बाहुलकादित्थान्यत्रापि । यद्यत्ते रोचते । जं जं ते रोइत्था । हच् इति चकारः इह-हचोर्हस्य [४.२६८] इत्यत्र विशेषणार्थः ॥ तृतीयस्य मो-मु-माः ॥ १४४ ॥ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य संबन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ।। हसामो । हसामु । हसाम । तुवरामो । तुवरामु । तुवराम ।। ____अत एवैच् से ॥ १४५ ॥ त्यादेः स्थाने यो एच् से इत्येतावादेशावुक्तौ . तावकारान्तादेव भवतो नान्यस्मात् ॥ हसए । हससे ॥ तुवरए । तुवरसे। करए । करसे ॥ अत इति किम् । ठाइ । ठासि ॥ वसुआइ । वसुआसि ॥ होइ । होसि ॥ एवकारोकारान्ताद् एच् से एव भवत इति विपरीतावधारणनिषेधार्थः। तेनाकारान्ताद् इच् सि इत्येतावपि सिद्धौ ॥ हसइ । हससि ॥ वेवइ । वेवसि ।। सिनास्तेः सिः ॥ १४६ ॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति ॥ निट्ठरो जं सि ॥ सिनेति किम् । सेआदेशे सति अत्थि तुमं ॥ १B कविहियअसा. २ A °दाआत्मने°. ३ B °स्य वचनस्य स्था'.४ B वेविह. ५ P बहुलाधिकारात्, ६ B °स्य स्था'. ७ B इत्यादे. ८ A. सि. .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy