________________
३.१४२J.
प्राकृतव्याकरणम् ।
५३५ • क्यडोर्यलुक् ॥ १३८ ॥ क्यजन्तस्य क्यक्षन्तस्य वा संबन्धिनो यस्य लुग् भवति ॥ गैरआइ । गरुआअइ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः । क्यतं । दमदमाइ । दमदमाई ॥ लोहिआइ । लोहिआअइ ॥
त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ॥ १३९ ॥ त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाचं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः ॥ हसइ । हसए । वेवइ । वेवए । चकारौ इचेचः [४.३१८] इत्यत्र विशेषणाौँ ।
द्वितीयस्य सि से ॥ १४ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य संबन्धिन आर्धवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे ॥
तृतीयस्य मिः ॥ १४१ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वच· नस्य स्थाने मिरादेशो भवति ॥ हसामि । वेवामि ॥ बहुलाधिकाराद् मिवेः स्थानीयस्य मेरिकारलोपश्च ॥ बहु-जाणय रूसिउं सकं । शक्नोमीत्यर्थः ॥ न मरं । न म्रिये इत्यर्थः ॥
बहुष्वाद्यस्य न्ति न्ते इरे ॥ १४२ ॥ त्यादीनां परस्मैपदात्मनेपदानामाद्यत्रयसंबन्धिनो बहुषु वर्तमानस्य
___१ B°ङो यलुक्. २ B °स्य क्यजंतस्य क्यपंत'; P स्यक्यषन्तस्य.३A गुरु'. ४ Pक्यष् ; Bक्यच. ५B°इ। क्यष् । लो . ६ A °स्यद्य. ७ B इचेच् इ. ८B द्यस्य व. ९ P मिवेस्था'; B मिवस्था. १० A रूसिअ; B रूसिमो. ११ B °दानामात्मनेपदानां च आद्य'.