________________
५३४
हेमचन्द्राचार्यविरचितं
[ ३.१३४
कचिद् द्वितीयादेः ॥ १३४ ॥
द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमाधरस्स वन्दे । तिस्सा मुहस्स भरिमो | अत्र द्वितीयायाः षष्ठी ॥ धणस्स लेद्धो । धनेन लब्ध इत्यर्थः । चिरस्स मुक्का । चिरेण मुक्तेत्यर्थः । तेसिमेअमणाइण्णं । तैरेतदनाचरितम् । अत्र तृतीयायाः ।। चोरस्स बीइ | चोराद्विभेतीत्यर्थः । इअराइं जाण लहुअक्खराई पायन्तिमिलसहिआण | पादान्तेन सहितेभ्य इतराणीति । अत्र पैचम्याः ॥ पिट्ठीऍ केस भारो | अत्र सप्तम्याः ||
1
द्वितीया - तृतीययोः सप्तमी ।। १३५ ।।
द्वितीयातृतीययोः स्थाने क्वचित् सप्तमी भवति ॥ गामे वसामि । नयरे न जामि । अत्र द्वितीयायाः ॥ मइ वेविरीएं मलिआई ॥ तिसु ते अलंकिआ पुहवी । अत्र तृतीयायाः ॥
पञ्चम्यास्तृतीया च ॥ १३६ ॥
पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ।। चोरेण बीहइ । चोराद्विभेतीत्यर्थः ॥ अन्तेउरे रमिउमागओ राया । अन्तःपुराद् रन्त्वागत इत्यर्थः ।।
सप्तम्या द्वितीया ॥ १३७ ॥
सप्तम्याः स्थाने क्वचिद् द्वितीया भवति ॥ विज्जुज्जोयं भरइ रतिं ॥ आ तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले तस्मिन् समये इत्यर्थः ॥ प्रथमाया अपि द्वितीया दृश्यते । चडवीसं पि जिणवरा । चतुर्विंशतिरपि जिनवरा इत्यर्थः ॥
१ P °यार्थे ष ं. २ B लुद्धो. ३ B धणेण लुब्ध. ४ Bदनाचीर्णमित्यर्थः . ५°यार्थे ॥ ६ P विहइ. ७P चम्यर्थे. ८ P प्तम्यर्थे ९ B जानामि . १० B वेवरिए. ११B मार्थेपि.