________________
हेमचन्द्राचार्यविरचितं .३.११५ - ..मि मइ ममाइ मए मे ङिना ॥ ११५॥ __ अस्मदो ङिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि मइ ममाइ मए मे ठिअं॥ __ अम्ह-मम-मह-मज्झा ङौ ॥११६॥ अस्मदो ङौ परत एते चत्वार आदेशा भवन्ति । उस्तु यथाप्राप्तम् ॥ अम्हम्मि ममम्मि महम्मि मज्झम्मि ठिअं॥
सुपि ॥ ११७ ॥ अस्मदः सुपि परे अम्हादयश्चत्वार आदेशा भवन्ति ॥ अम्हेसु । ममेसु । महेसु । मझेसु । एत्वविकल्पमते तु । अम्हसु । ममसु। महसु । मज्झसु ॥ अम्हस्यात्वमपीच्छत्यन्यः । अम्हासु ॥
त्रैस्ती तृतीयादौ ॥ ११८ ॥ .. वे स्थाने ती इत्यादेशो भवति तृतीयादौ ॥ तीहिं कयं । तीहिन्तो आगओ । तिण्हं धणं । तीसु ठिअं॥
द्वेर्दो वे ॥ ११९ ॥ द्विशब्दस्य तृतीयादौ दो वे इत्यादेशौ भवतः ॥ दोहि वेहि कयं । दोहिन्तो वेहिन्तो आगओ । दोण्हं. वेण्हं धणं । दोसु वेसु ठिअं॥..
दुवे दोण्णि वेण्णि च जस्-शंसा ॥ १२० ॥ जस्-शस्भ्यां सहितस्य द्वेः स्थाने दुवे दोणि वेण्णि इत्येते दो वे इत्येतौ च आदेशा भवन्ति ॥ दुवे दोण्णि वेण्णि दो वे ठिआ पेच्छ वा । ह्रस्वः संयोगे [१.८४] इति ह्रस्वत्वे दुण्णि विण्णि ॥
१ A °न्ति । अ°. २ B°च्छत्यन्ये. ३ P त्रेस्तिस्तृ. ४ A °दौ । तीहितो. ५ B °शौ वा भ'. ६ A वणं. ७ P °शसो. ८ B °ते आदेशा भवंति । चकाराहो वे इत्येतो भवतः ॥.