________________
३.१२४] प्राकृतव्याकरणम् ।
५३१ __ स्तिण्णिः ॥ १२१॥ जस्-शस्भ्यां सहितस्य त्रेः स्थाने तिणि इत्यादेशो भवति ॥ तिण्णि ठिआ पेच्छ वा ॥
चतुरश्चत्तारो चउरो चत्तारि ॥ १२२ ॥ चतुशब्दस्य जस्-शस्भ्यां सह चत्तारो चउरो चचारि इत्येते आदेशा भवन्ति ॥ चत्तारो । चउरो । चत्तारि चिट्ठन्ति पेच्छ वा ॥
संख्याया आमो ण्ह एहं ॥ १२३ ॥ संख्याशब्दात्परस्यामो ह ण्हं इत्यादेशौ भवतः ॥ दोण्ह । तिण्ह । चउणह । पञ्चण्ह । छण्हं । सत्तण्ह । अट्ठण्ह ॥ एवं दोण्हं । तिण्हें । चउण्हं । पञ्चण्हं । छण्हं । सत्तण्हं । अट्ठण्हं । नवण्हं । दसण्हं । पण्णरसण्हं दिवसाणं । अट्ठारसण्हं समण-साहस्सीणं ॥ कतीनाम् । कइण्हं ॥ बहुलाधिकाराद् विंशत्यादेर्न भवति ॥ .. शेषेदन्तवत् ॥ १२४ ॥ उपयुक्तादन्यः शेषस्तत्र स्यादिविधिरदन्तवदतिदिश्यते । येष्वाकारा· द्यन्तेषु पूर्व कार्याणि नोक्तानि तेषु जस्-शसोर्लुक् [ ३. ४ ] इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः ॥ तत्र जस्शसोर्लुक् इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही वहू रेहन्ति पच्छ वा ॥ अमोस्य [३.५ ] इत्येतत्कार्यातिदेशः। गिरिं गुरुं सहिं वहुं गामणिं खलपुं पेच्छ ॥ टा-आमोर्णः [३.६] इत्येतत्कातिदेशः । हाहाण कयं । मालाण गिरीण गुरूण सहीण वढूण धणं । टायास्तु । टो णा [ ३.२४ ] । टा-ङस्-डेरदादिदेवा तु ङसेः [ ३. २९ ] इति विधिरुक्तः ॥ भिसो हि हिँ हिं [ ३. ७ ] इत्येतत्कातिदेशः । मालाहि गिरीहि गुरूहि सहीहि वहूहि कयं । एवं सानुनासिकानु
१ B सहितस्य च . २ A तिण्हं । नवण्हं. ३ P °शः । मालाण,