________________
३.१८] . प्राकृतव्याकरणम् ।
५०९ . टाण-शस्येत् ॥१४॥ टादेशे णे शसि च परे अस्य एकारो भवति ॥ टाण । वच्छेण ॥ णेति' किम् । अप्पणा । अप्पणिआ । अप्पणइआ । शस् । वच्छे पेच्छ ।
भिस्भ्यस्सुपि ॥ १५॥ एषु अत एर्भवति ॥ भिस् । वच्छेहि । वच्छेहिँ । वच्छेहिं ॥ भ्यस् । वच्छेहि । वच्छेहिन्तो । वच्छेसुन्तो ॥ सुप् । वच्छेसु ॥
इर्दुतो दीर्घः ॥१६॥ इकारस्य उकारस्य . च भिस्भ्यस्सुप्सु परेषु दीर्घो भवति ॥ भिस् । गिरीहिं । बुद्धीहिं । दहीहिं । तरूहिं । धेणूहिं । महूहिं कयं ॥ भ्यस् । गिरीओ। बुद्धीओ । दहीओ । तरूओ । धेणूओ । महूओ आगओ ॥ एवं गिरीहिन्तो । गिरीसुन्तो आगओ इत्याद्यपि ॥ सुप् । गिरीसु । बुद्धीसु । दहीसु । तरूसु । धेणूसु । महूसु ठिअं । कचिन्न भवति । दिअ-भूमिसु दाण-जैलोल्लिआई ॥ इद्रुत इति किम् । वच्छेहिं । वच्छे'सुन्तो । वच्छेसु ।। भिस्भ्यस्सुपीत्येव । गिरिं तरं पेच्छ । _चतुरो वा ॥ १७ ॥ चतुर उदन्तस्य भिस्भ्यस्सुप्सु परेषु दीर्घो वा भवति ॥ चऊँहि चउँहि । चऊओ चउओ । चऊसु चउसु ।
लुप्ते शसि ॥ १८ ॥ इदुतोः शसि लुप्ते दीर्घो भवति ॥ गिरी । बुद्धी । तरू । धेणू पेच्छ ॥ . लुप्त इति किम् । गिरिणो । तरुणो पेच्छ । इदुत इत्येव । वच्छे पेच्छ ।। जस्-शस् [३.१२] इत्यादिना शसि दीर्घस्य लक्ष्यानुरोधार्थो योगः । लुप्त इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ॥
१ Bणे इति. २ B एद्भ. ३ A °हि । वच्छेहिं. ४ B °तोर्दी. ५ A °स्य भि. ६ B जलेल्लि°. ७ B इत्उत्किं. ८ B चतुरस्य उ°. ९ B °हिं. १० PB °र्थोऽयं यो.