________________
५०८
हेमचन्द्राचार्यविरचितं . [३.८ङसेस् तो-दो दु-हि-हिन्तो-लुकः ॥ ८॥ अतः परस्य डसेः तो दो दु हि हिन्तो लुक् इत्येते षडादेशा भवन्ति ।। वच्छत्तो । वच्छाओ। वच्छाउ । वच्छोहि । वच्छाहिन्तो। वच्छा ॥ दकारकरणं भाषान्तरार्थम् ।।
भ्यसस् तो दो दु हि हिन्तो सुन्तो ॥ ९ ॥ अतः परस्य भ्यसः स्थाने तो दो दुहि हिन्तो सुन्तो इत्यादेशा भवन्ति ॥ वृक्षेभ्यः । वच्छत्तो । वच्छाओ । वच्छाउ । वच्छाहि । वच्छेहि । वच्छाहिन्तो । वच्छेहिन्तो । वच्छासुन्तो। वच्छेसुन्तो.॥.
ङसः स्सः ॥ १० ॥ अतः परस्य ङसः संयुक्तः सो भवति ॥ पियस्स । पेम्मस्स । उपकुम्भं शैत्यम् । उवकुम्भस्स सीअलत्तणं ॥
डे म्मि ः ॥ ११॥ . . . अतः परस्य उर्डित् एकारः संयुक्तो मिश्च भवति ।। वच्छे । वच्छम्मि ॥ देवम् । देवम्मि । तम् । तम्मि । अत्र द्वितीयातृतीययोः सप्तमी [ ३. १३५ ] इत्यमो ङिः ।।
जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः ॥ १२ ॥ एषु अतो दीर्घो भवति ।। जसि शसि च । वच्छा ।। ङसि । वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा ।। त्तोदोदुषु । वृक्षेभ्यः । वच्छत्तो । ह्रस्वः संयोगे [१.४] इति ह्रस्वः ॥ वच्छाओ । वच्छाउ ॥ आमि । वच्छाण ॥ ङसिनैव सिद्धे त्तोदोदुग्रहणं भ्यसि एत्वबाधनार्थम्।।
भ्यसि वा ॥ १३ ॥ भ्यसादेशे परे अतो दी? वा भवति ॥ वच्छाहिन्तो वच्छेहिन्तो । वच्छासुन्तो वच्छेसुन्तो । वच्छाहि वच्छेहि ।
....१ B लुक्. २ A °क् एते ते ष'. ३ A °हि । वच्छेहि । व॰. ४ B स्सो.
कुम्भशै.