________________
॥ अहं ॥ वीप्स्यात्स्यादेवींप्स्ये स्वरे मो वा ॥ १ ॥ वीप्सार्थात्पदात्परस्य स्यादेः स्थाने स्वरादौ वीसार्थे पदे परे मो वा भवति ।। एकैकम् । एक्कमेकं । एक्कमेक्केण । अङ्गे अङ्गे । अङ्गमङ्गम्मि । पक्षे । एकेक्कमित्यादि ॥
अतः सें?ः ॥ २॥ अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने डो भवति ।। वच्छो ।
वैतत्तदः॥३॥ एतत्तदोकारात्परस्य स्यादेः से? वा भवति ॥ एसो एस । सो णरो। स रो॥
जस्-शसोर्लक् ॥ ४ ॥ - अकारान्तानाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति । वच्छा एए । वच्छे पेच्छ ।
अमोस्य ॥ ५॥ अतः परस्यामोकारस्य लुग् भवति ॥ वच्छं पेच्छ ।
टा-आमोर्णः ॥६॥ अतः परस्य टा इत्येतस्य षष्ठीबहुवचनस्य च आमो णो भवति ॥ वच्छेण । वच्छाण ॥
भिसो हि हिं हिं ॥ ७ ॥ अतः परस्य भिसः स्थाने केवलः सानुनासिकः सानुस्वारश्च हिर्भवति ॥ वच्छेहि । वच्छेहिँ । वच्छेहिं कया छाही । . १ B वीप्सात्स्या . २ A वीप्स्यार्था'. ३ A वीप्स्यार्थे . ४ B एक्कमेकं. . A ?.