________________
५१० हेमचन्द्राचार्यविरचितं .. [३.१९
अक्लीचे सौ ॥ १९ ॥ इदुतोक्लीबे नपुंसकादन्यत्र सौ दीर्घो भवति ॥ गिरी । बुद्धी । तरू । घेणू ॥ अक्लीब इति किम् । दहिं । महुँ । साविति किम् । गिरिं । बुद्धिं । तरूं । घेणुं । केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेआदेशमपीच्छन्ति । अग्गि । निहिं । वाउं । विहुं ।। .. पुंसि जसो डउ डओ वा ॥ २० ॥ इदुत इतीह पञ्चम्यन्तं संबध्यते । इदुतः परस्य जसः पुंसि अउ. अओ इत्यादेशौ डितौ वा भवतः ॥ अग्गउ अग्गओ । वायउ वायओ चिट्ठन्ति । पक्षे । अग्गिणो । वाउणो ॥ शेषे अदन्तवद्भावाद् अग्गी । वाऊ ॥ पुंसीति किम् । बुद्धीओ । धेणूओ । दहीई । महूई। जस इति किम् । अग्गी । अग्गिणो । वाऊ । वाउणो पेच्छइ ।। इदुत , इत्येव । वच्छा ।।
वोतो डवो ॥२१॥ उदन्तात्परस्य जसः पुंसि डित् अबो इत्यादेशो वा भवति ॥ साहवो। पक्षे । साहओ। साह उ । साहू । साहुणो. ।। उत इति किम् । वच्छा ॥ पुंसीत्येव । धेणू । महूइं ॥ जस इत्येव । साहू । साहुणों पेच्छ ।
जस्-शसोर्णो वा ॥२२॥ इदुतः परयोर्जस्-शसोः पुंसि णो इत्यादेशो वा भवति ॥ गिरिणो । तरुणो रेहन्ति पेच्छ वा । पक्षे । गिरी । तरू ॥ पुंसीत्येव । दहीइं । महूई । जस्-शसोरिति किम् । गिरिं । तरुं ॥ इदुत इत्येव । वच्छा । वच्छे ॥ जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । एवमुत्तरसूत्रेपि ॥
१ A नहिं. २ P बुद्धीउ. ३ P घेणूउ.