________________
[ है ० ८.१.३]
प्रथमः सर्गः ।
अत्थि अणहिल-नगरं अन्ता - वेईसमाइ - निव-निचिअं । सत्तावीसह - मुत्तिअ-भूसिअ - जुवइ - जण पइ - हरयं ॥ २ ॥ तिअस- वई - हर- वहु- मुह- आदरिसीहूय-फलिह - सिल - सिहरो । जसि पुइ-वहू- मुह-अवयंसो सहर पायारो ॥ ३ ॥
२. अधुना श्रीकुमारपालस्य चरितं विवर्णयिषुः सकलेन्दिरामन्दिरं तद्राजधानीनगरं वर्णयति । अन्तर्वेदिः गङ्गायमुनयोर्मध्यदेशः तस्य ईशः स आदिर्येषां ते च ते नृपाश्च तैर्निचितं व्याप्तम् । प्रतापपराभूतमार्तण्डमण्डलस्य श्रीकुमारपालभूपालस्य प्रसादनाय सकलदिङ्मण्डलमिलिताखिलनरपालचक्रवालेन सर्वकालमस्य कलितसप्तविंशतिमौक्तिकाभिर्नक्षत्रमालानामहारविशेषैः भूषितो
त्वात् ।
·
युवतिजनो येषु एवंभूतानि पतिगृहाणि ईश्वरसदनानि यत्र तत् अणहिलनगरम् अस्तीति संबन्धः । तत् पुनः कथम् ' अणहिलनगरम् ' इत्यभिधीयते । अभिधीयते । पूर्वं किल वनराजराजेन नूतननगरविधानविहितचित्तेन प्रधानभूमिखण्डगवेषणार्थं विचरता एकदा अरण्यमध्ये गवादींश्चारयन् अणहिलो नाम गोपालो दृष्टः । तदग्रे च चित्ताभिप्रायो निवेदितः । तेनापि तत्कार्यकरणार्थं शकुनगवेषणं कुर्वता एकत्र प्रदेशे शृगालो बलिष्ठकुक्कुरं निर्धारयन्नवलोकितः । तत्रैव च अणहिलेन वनराजराजो नगरनिवेशं स्वनाम्ना कारित इति अणहिलनगरम् ॥
वेईसमाइ इत्यत्र वक्रादित्वाद् [१.२६] अनुस्वारः । बाहुलकौत् [ १.२४] क्वचिद् अन्यस्यापि व्यञ्जनस्य मः ॥
३. अर्धुना षड्विंशतिगाथामानेन
आदिमहाकुलकेन एतदेव नगरं यच्छब्देन निर्दिशन् वर्णयति । तृतीया दशा येषाम् । मयूरव्यंसकादित्वान्निपातः । तेषां पतिः इन्द्रः तस्य गृहं स्वर्गः तत्र या
१ D अणहिल्ल°. २ BC ° कुर्कुरं ३ BC बाहुलकत्वात् ४ D अथ.