SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ६ कुमारपालचरिते निव-सह-मुहावयंसा बिइया गुरुणो अबीय-गुण-निवहा । निवसन्ति अणेग-बुहा जस्सि पुहवीस-सलहिजे ॥४॥ न हु अस्थि न वि अ हूअं इह लोए अइसएण जस्स समं । सुंउरिस-ठाणमसूरिस-रहिअं सालाहण-पुरं पि ॥५॥ वध्वस्तासां यानि मुखानि तेषाम् उन्नतत्वाद् उज्ज्वलत्वोच्च अनादर्शा आदर्शाः संपन्नानि आदर्शीभूतानि स्फटिकशिलाशिखराणि यस्य । पृथिव्येव वधूः सुखहेतुत्वात् तस्या मुखं सर्वनगरप्रधानत्वात् इदमेव नगरं वक्त्रम् तस्य अवतंसः शोभाकारित्वात् शेखरः इत्थंभूतः प्राकारः कोट्टो यत्र राजते ॥ अन्तावेईस । सत्तावीसइ-मुत्तिअ-भूसिअ । “दीर्घह्रस्वौ मिथो वृत्तौ' [४] इति स्वराणां समासे दीर्घहस्वौ । क्वचिन्न । जुवइ-जण । क्वचिद् वा । पइ-हरयं वई-हर । दीर्घस्य ह्रस्वः । सिल-सिंहरो । क्वचिद् वा । वहु-मुह वहू-मुह ॥ ४. नृपस्य सभाया रम्यत्वात् मुखस्य अन्यथानुपपत्तेश्च कान्तात्वम् । सा तस्या मुखम् तत्र अवतंसाः शोभाकृत्त्वेन आपीडा इव । किल गगनाङ्गणगत एक एव गुरुः प्रसिद्धः । परम् एते विशदप्रज्ञर्द्धितः उत्प्रेक्ष्यन्ते द्वितीया गुरवः । अविद्यमानो द्वितीयः उपमानतया यस्य सः अद्वितीयो निरुपमः । एवंभूतो गुणनिवहो येषाम् । न एकः अनेकः अनेकश्च ते बुधाश्च ते तथा । पृथिवीशैरन्यनगरापेक्षया श्लाघ्ये प्रशस्ये यस्मिन् निवसन्ति । मुह-अवयंसो मुहावयंसा । “पदयोः संधिर्वा" [५] इति संस्कृतोक्तः सर्वः संधिर्वा । पदयोरिति किम् । सहइ । बहुलाधिकारात् क्वचिद् एकपदेपि। बिइया अबीय ॥ ५. सकलनगरतिलककल्पं किल सातवाहनस्य राज्ञो नगरं __१ B सुयरिस'; C सउरिस'. २ C उजलत्वाचानादर्शा; B उज्जलत्वाद्वानादर्शा. ३ B आदर्शासं'; C आदर्शसं. ४ om. सर्वः.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy