________________
कुमारपालचरिते . जीवे' कम्मे तज्जीव-भूअ-तारिसय-बन्धमोक्खे य ।। देवा नेरइया वा पुन्ने परलोय-निव्वाणे ॥
अपहरमाणं विनाशयन्तम् । इत्यनेन वचनातिशय उक्तः । स च न ज्ञानातिशयं विनेति तेन ज्ञानातिशयाक्षेपः । सोपि न अपायापगमातिशयं विनेति तेनापि च अपायापगमातिशयाक्षेपः । अपायभूता रागादयः तेषामपगमः । स . एव अतिशयः । अथवा। वर्ध च्छेदनपूरणयोः । चौरादिकत्वाणिचि कृते वय॑ते छिद्यतेसाविति स्वरान्तत्वात् कर्मण्यल् । ततो वर्धः छिन्नः मानः अहंकारो येनेति व्युत्पत्त्या वर्धमान इति नाम्नैव सूचितः । इत्थं चतुस्त्रिंशदतिशयज्ञापकमतिशयचतुष्कमुक्तम् । पाइआहिँ · भासाहिँ इत्यत्र बहुवचनमशेषान्यभाषासंग्रहार्थम् । अत्र च संस्कृतढ्याश्रयप्रतिपादितव्याकरणसप्ताध्यायसिकललक्ष्यतळ्यावर्ण्यमानश्रीमूलराजनृपादि - चरितरूपाभिधेयानुक्रमायातप्राकृताष्टमाध्यायोदाहरणश्रीकुमारपालभूपालचरित्रस्वरूपमभिधेयमथशब्देन सूच्यते । अनेन च अभिधेयेन सह अस्य महाकाव्यस्य प्रतिपाद्यप्रतिपादकलक्षणः संबन्धः । प्रयोजनं च अनन्तरं सकलप्राकृतलक्षणश्रीकुमारपालचरितपरिज्ञानम् । परं परं च निःश्रेयसम् । यदुक्तम् ।
व्याकरणात् पदसिद्धिः पदसिद्धेरर्थनिर्णयो भवति । अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः ॥ १ ॥ सुकृतं जनयत्यादावसुरसुरवामितां ततः क्रमशः । निर्वृतिवनितावाप्तिं धार्मिकगुणकीर्तनं विदुषाम् ॥२॥ "अहे पाइआहिं" "बहुलं” “आरिसं" इति पदभणितिव्याजेन साक्षात् “अथ प्राकृतम्' [१], "बढुलम्" [२], "आर्षम्" [३], इति सूत्रत्रयं प्रतिपादितम् । तच्च अग्रे यथालक्ष्यम् अत्र ग्रन्थे व्यक्तीभविष्यति ॥
१ BC जीवो. २ D °लोग'. ३ BC °णिति. ४ Comits प्रतिपाद्य. ५ Domits अह......व्यक्तीभविष्यति.