________________
१.१५१] प्राकृतव्याकरणम् ।
४९३ + क्त्वस्तुमत्तूण-तुआणाः ॥ १४६ ॥ क्त्वाप्रत्ययस्य तुम् अत् तूण तुआण इत्येते आदेशा भवन्ति ॥ तुम् । दुटुं । मोत्तुं ॥ अत् । भमिअ । रमिअ ॥ तूण । घेत्तूण । काऊण ॥ तुआण । भेत्तुआण । सोउआण ॥ वन्दित्तु इत्यनुस्वारलोपात ॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन ।। कट्टै इति तु आर्षे ।
इदमर्थस्य केरः ॥ १४७ ॥ इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति ॥ युष्मदीयः । तुम्हकेरो ॥ अस्मदीयः । अम्हकेरो ॥ न च भवति । मईअ-पक्खे । पाणिणीआ ॥
पर-राजभ्यां क्व-डिकौ च ॥ १४८ ॥ पर राजन् इत्येताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं संयुक्तो को डित् इक्कश्चादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं । परकं । पारकेरं ॥ राजकीयम् । राइकं । रायकेरं ॥
.. युष्मदस्मदोज एच्चयः ॥ १४९ ॥ . आभ्यां परस्येदमर्थस्याल एञ्चय इत्यादेशो भवति ॥ युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेच्चयं ।।
वर्चः ॥ १५ ॥ वतेः प्रत्ययस्य द्विरुक्तो वो भवति ॥ महुरव्व पाडलिउत्ते पासाया ।।
सर्वाङ्गादीनस्येकः ॥ १५१॥ सर्वाङ्गात् सर्वादेः पथ्यङ्गं [हे. ७.१] इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ ॥ ... १A आणा इ° २ B सिद्धं सं°. ३ B कटु. ४ B भवंति मईअपक्खे पा;
P भवति ॥ मईअ पक्खो । पा. ५ B °को क डित्. ६ PB °कं । पा.