________________
४९४ हेमचन्द्राचार्यविरचितं . [ २.१५२. पथो णस्येकः ॥ १५२ ॥ नित्यं णः पन्थश्च [हे. ६. ४] इति यः पथो णो विहितस्तस्य इकट् भवति ॥ पान्थः । पहिओ ॥
ईयस्यात्मनो णयः ।। १५३ ॥ आत्मनः परस्य ईयस्य णय इत्यादेशो भवति ॥ आत्मीयम् । अप्पणयं ॥
त्वस्य डिमा-त्तणौ वा ॥ १५४ ॥ त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः ॥ पीणिमा । पुल्फिमा।. पीणत्तणं । पुप्फत्तणं । पक्षे । पीणत्तं । पुप्फत्तं ॥ इम्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः ॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे । तेनेह तलो दा न .. क्रियते ॥
अनङ्कोठात्तैलस्य डेल्लः ॥ १५५॥ अङ्कोठवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्य डेल्ल इत्यादेशो भवति ॥ सुरहि-जलेण कडुएल्लं ।। अनङ्कोठादिति किम् । अङ्कोल्लतल्लं ॥
यत्तदेतदोतोरित्तिअ एतल्लुक् च ॥ १५६ ॥ एभ्यः परस्य डावादेरतोः परिमाणार्थस्य इत्तिअ इत्यादेशो भवति एतदो लुक् च ॥ यावत् । जिक्तिअं ॥ तावत् । तित्तिरं ॥ एतावत् । इत्तिअं॥
इदंकिमश्च डेत्तिअ-डेत्तिलँ-डेदहाः ॥१५७ ॥ इदकिंभ्यां यत्तदेतद्भयश्च परस्यातोर्डावतोर्वा डित एत्तिअ ऐत्तिल एहह इत्यादेशा भवन्ति एतल्लक् च ॥ इयत् । एत्तिअं । 'एत्तिलं । एदहं ॥ कियत् । "केत्ति। कत्तिलं । केदहं ॥ यावत् । जेतिरं।
१B °कट नित्यं णः ॥ ५२ ॥ पन्थ . २ A नोऽणयः, ३ A पुष्फत्तं. ४P अनकोठव. ५ A सुरहीज. ६ A डित्तिल. ७ B°ल्ल°. ८ B डित्. ९ A इत्तिल. १० A इत्तिलं. ११ A कित्तिअं. १२ A कित्तिलं..