SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४९० हेमचन्द्राचार्यविरचितं [२.१२४ललाटे च [१.२५७] इति आदेर्लस्य णविधानादिह द्वितीयो लः स्थानी॥ ह्ये ह्योः ॥ १२४ ॥ ह्यशब्दे हकारयकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् । गुय्हं गुज्झं ॥ सह्यः । सय्हो सज्झो॥ स्तोकस्य थोक-थोव-थेवाः ॥ १२५॥ स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ थोकं थोवं थेवं । पक्षे । थोअं॥ दुहित-भगिन्यो—आ-बहिण्यौ ॥ १२६ ॥ अनयोरेतावादेशौ वा भवतः ॥ धूआ दुहिआ । बहिणी भइणी ॥ वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥१२७॥ वृक्षक्षिप्तयोर्यथासंख्यं रुक्ख छूढ इत्यादेशौ वा-,भवतः । रुक्खो वच्छो। छूढं खित्तं । उच्छूढं । उक्खित्तं ॥ वनिताया विलया ॥ १२८ ॥ वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥ विलया वणिआ ॥ विलयेति संस्कृतेपीति केचित् ॥ . गौणस्येषत कूरः ॥ १२९॥ ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति ।। चिंच व्व कूर-पिक्को । . पक्षे । ईसि ॥ स्त्रिया इत्थी ॥ १३०॥ स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ इत्थी थी ॥ . धृतेर्दिहिः ॥१३१॥ धृतिशब्दस्य दिहिरित्यादेशो वा भवति ॥ दिही धिई । १P °पक्का. २ B वा ॥ दिही.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy