________________
४८८
हेमचन्द्राचार्यविरचितं . [२.१०८स्वप्ने नात् ॥ १०८॥ स्वप्नशब्दे नकारात्पूर्व इद् भवति ॥ सिविणो ॥
स्निग्धे वादितौ ॥ १०९॥ स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥ सणिद्धं सिणिद्धं । . पक्षे निद्धं ॥ - कृष्णे वर्णे वा ॥ ११०॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः ॥ कसणो कसिणो कण्हो । वर्ण इति किम् ॥ विष्णौ कण्हो ॥ .. ' उच्चार्हति ॥ १११ ॥ अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः ॥ अरहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो ॥ __ पद्म-छद्म-मूर्ख-द्वारे वा ॥ ११२ ॥ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥ पउमं पोम्मं । छउम छम्मं । मुरुक्खो मुक्खो । दुारं । पक्षे । वारं। देरं। दारं ॥ - तन्वीतुल्येषु ॥ ११३॥ उकारान्ता ङीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारो भवति ॥ तणुवी । लहुवी । गरुवी । बहुवी । पुहुवी । मउवी ।। क्वचिदन्यत्रापि । नुन्नम् । सुरुग्धं ॥ आर्षे । सूक्ष्मम् । सुहुमं ॥
एकस्वरे श्वः-स्वे ॥ ११४ ॥ एकस्वरे पदे यौ श्वस् स्व इत्येतौ तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति ।। श्वः कृतम् । सुवे कयं ।। स्वे जनाः ।। सुवे जणा ॥ एकस्वर इति किम् । स्व-जनः । स-यणो ।।
. १ B नात्पू. २ P णिद्धं. ३ B°क्तव्य'. ४ P रं । बारं । दे°. AB °न्तात् ङी. ६ A पहुवी. ७ A °न्यदपि.