________________
४८६ हेमचन्द्राचार्यविरचितं.
[२.९८. तैलादौ ॥ ९८॥ तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च व्यञ्जनस्य द्वित्वं भवति ॥ तेल्लं । मण्डुक्को । वेइल्लं । उज्जू । विड्डा । वहुत्तं ॥ अनन्त्यस्य । सोत्तं । पेम्मं । जुव्वणं ॥ आर्षे । पडिसोओ । विस्सोअसिआ ॥ तैल । मण्डूक । विचकिल । ऋजु । ब्रीडा । प्रभूत । स्रोतस् । प्रेमन् । यौवन इत्यादि ।
सेवादौ वा ॥ ९९ ॥ सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति । सेव्वा सेवा ॥ नेईं नीडं । नक्खा नहा । निहित्तो निहिओ । वाहित्तो वाहिओ । माउकं माउअं । एक्को एओ। कोउहल्लं कोउहलं । वाउल्लो वाउलो । थुल्लो थोरो । हुत्तं हूअं । दइव्वं दइवं । तुण्हिक्को तुण्हिओ । मुक्को मूओ । खण्णू खाणू। थिणं थीणं ॥ अनन्त्यस्य । अम्हक्केरं अम्हकेरं । तं च्चेअ तं चेअ । सो चिअ सो चिअ ॥ सेवा । नीड । नख । निहित । व्याहृत । मृदुक । एक । कुतूहल । व्याकुल । स्थूल । हूत । दैव । तूष्णीक । मूक । स्थाणु । स्त्यान । अस्मदीय । चेअ । चिअ । इत्यादि ।
शाङ्गै ङात्पूर्वोत् ।। १०० ॥ , शाङ्गे ङात्पूर्वो अकारो भवति ॥ सारङ्गं ॥
क्ष्मा-श्लाघा-रत्नेन्त्यव्यञ्जनात् ॥ १०१ ॥ एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥ छमा । सलाहा । रयणं ॥ आर्षे सूक्ष्मेपि । सुहमं ॥
स्नेहान्योर्वा ॥ १०२ ॥ अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोकारो वा भवति ॥ सणेहो नेहो । अगणी अग्गी ॥
१ B नेडं. २ A थेरो.