________________
२.९७] .. प्राकृतव्याकरणम् ।
४८५ पार्श्वम् । पासं ॥ शीर्षम् । सीसं ॥ ईश्वरः । ईसरो ॥ द्वेष्यः। वेसो ॥ लास्यम् । लासं ॥ आस्यम् । आसं ॥ प्रेष्यः । पेसो ॥ अवमाल्यम् ।
ओमालं ॥ आज्ञा । आणा । आज्ञप्तिः । आणत्ती ॥ आज्ञपनं । आणवणं ॥ अनुस्वारात् । व्यस्रम् । तंसं ॥ अलाक्षणिक । संझा । विंझो । कंसालो ॥
र-होः ॥ ९३ ॥ रेफहकारयोर्द्वित्वं न भवति ॥ रेफः शेषो नास्ति ॥ आदेशै । सुन्दरं । बम्हेंचरं । पेरन्तं ॥ शेषस्य हस्य । विहलो ॥ आदेशस्य । कहावणो ॥ ... धृष्टद्युम्ने णः ॥ ९४ ॥ धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ धट्ठज्जुणो ॥
कर्णिकारे वा ॥ ९५ ॥ कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरो कण्णिआरो॥
दृप्ते ॥ ९६ ॥ दृप्तशब्दे शेषस्य द्वित्वं न भवति ॥ दरिअ-सीहेण ॥ · · समासे वा ॥ ९७ ॥
शेषादेशयोः समासे द्वित्वं वा भवति ॥ नइ-ग्गामो नइ-गामो । कुसुमप्पंयरो कुसुम-पयरो। देव-त्थुई देव-थुई । हर-क्खन्दा हर-खन्दा । आणाल-क्खम्भो आणाल-खम्भो ॥ बहुलाधिकारादशेषादेशयोरपि । स-प्पिवासों स-पिवासो । बद्ध-प्फलो बद्ध-फलो । मलय-सिहरक्खण्डं मलय-सिहर-खण्डं । पम्मुकं पमुक्कं । अईसणं अदंसणं । पडिक्कूलं पडिकूलं । तेल्लोकं तेलोकं इत्यादि ।
...१ B°ज्ञापनं. २ B °णिकं. ३ PB °देशे, ४ B बम्भचे . ५ B°स्य द्वि.
६ P वा भ.P °स्य तस्य द्वि.