________________
४८४ हेमचन्द्राचार्यविरचितं.. [ २.८७
वो हरिश्चन्द्रे ॥ ८७॥ हरिश्चन्द्रशब्दे श्व इत्यस्य लुग् भवति ।। हरिअन्दो ॥
रात्रौ वा ॥ ८८ ॥ रात्रिशब्दे संयुक्तस्य लुग् वा भवति ॥ राई रत्ती ॥
अनादौ शेषादेशयोर्द्वित्वम् ॥ ८९ ॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्य च द्वित्वं भवति॥शेष । कप्पतरू। भुत्तं । दुद्धं । नग्गो । उक्का । अको । मुक्खो ॥ आदेश । डक्को । जक्खो । रग्गो । किच्ची । रुप्पी ॥ क्वचिन्न भवति । कसिणो ॥ अनादाविति किम् । खलिअं । थेरो । खम्भो । द्वयोस्तु द्वित्वमस्त्येवेति न भवति । विश्नुओ। भिण्डिवालो ॥
द्वितीय-तुर्ययोरुपरि पूर्वः ॥ ९० ॥ द्वितीयतुर्ययोर्द्वित्वप्रसङ्गे उपरि पूर्वी भवतः । द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि तृतीय इत्यर्थः ॥ शेष । वक्खाणं । वग्यो । मुच्छा । निज्झरो । कटुं । तित्थं । निद्धणो । गुप्फ । निब्भैरो ॥ आदेश । जक्खो ॥ घस्य नास्ति ।। अच्छी । मझं । पट्ठी । वुड्डो । हत्थो । आलिद्धो । पुप्फ । भिब्भलो ॥ तैलादौ [२.९८] द्वित्वे ओक्खलं ॥ सेवादौ [२.९९] नक्खा । नहा ॥ समासे । कइ-द्धओ कइ-धओ ।। द्वित्व इत्येव । खाओ ॥
दीर्घ वा ॥ ९१॥ दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति ॥ दिग्घो दीहो ॥
न दीर्घानुस्वारात् ॥ ९२ ॥ दीर्घानुस्वाराभ्यां लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषादेशयोर्द्वित्वं न भवति ॥ छूढो । नीसासो । फासो ॥ अलाक्षणिक ।
१ B °ौ॥. २ B निब्भरो. ३ B निज्झरो. ४P उक्खलं.५ B से वा । क. ६ B °णिकं.