________________
२.८६ ] .. प्राकृतव्याकरणम् ।
४८३ द्रे रो न वा ॥ ८० ॥ द्रशब्दे रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भई भद्रं । समुद्दो समुद्रो ॥ हृदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम् । तत्र द्रहो दहो । केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते ॥ वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव । सिक्खन्तु वोद्रहीओ। वोद्रह-द्रहम्मि पडिआ ॥
धात्र्याम् ॥ ८१॥ धात्रीशब्दे रस्य लुग् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे धाई । पक्षे । धारी॥
तीक्ष्णे णः ॥ ८२ ॥ तीक्ष्णशब्दे णस्य लुग् वा भवति ।। तिक्खं । तिण्हं ॥
ज्ञो जः ॥ ८३ ॥ . ज्ञः संबन्धिनो अस्य लुग् वा भवति ।। जाणं णाणं । सव्वजो सव्वण्णू ।
अप्पज्जो अप्पण्णू । दइवज्जो दइवण्णू । इङ्गिअन्जो ईङ्गिअण्णू । मणोजं । मणोण्णं । अहिजो अहिण्णू । पज्जा पण्णा । अज्जा आणां । संजा
सण्णा ॥ कंचिन्न भवति । विण्णाणं ॥ . . . मध्याह्ने हः ॥ ८४ ॥ मध्याह्ने हस्य लुग् वा भवति ॥ मज्झन्नो मज्झण्हो ॥
दशाहे ॥ ८५॥ पृथग्योगाद्वेति निवृत्तम् । दशार्हे हस्य लुग भवति ॥ दसारो॥ - आदेः श्मश्रु-श्मशाने ॥ ८६ ॥ अनयोरादे ग् भवति ॥ मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य सीआणं सुसाणमित्यपि भवति ॥
१ B °ब्दे परे रे . २ A अंगि'. ३ B अण्णा. । सज्जा । सं.