________________
४८०
__ हेमचन्द्राचार्यविरचितं . [२.६५ - · एतः पर्यन्ते ॥६५॥ पर्यन्ते एकारात्परस्य यस्य रो भवति ॥ पेरन्तो ॥ एत इति किम् । पज्जन्तो ॥
आश्चर्ये ॥६६॥ आश्चर्ये ऐतः परस्य यस्य रो भवति ॥ अच्छेरं ॥ एत इत्येव । अच्छरि।
अतो रिआर-रिज-रीअं ॥ ६७॥ आश्चर्ये अकारात्परस्य यस्य रिअ अर रिज रीअ इत्येते आदेशा. भवन्ति ।। अच्छरिअं अच्छअरं अच्छरिजं अच्छरीअं ॥ अत इति किम् । अच्छेरं ॥ ___ पर्यस्त-पर्याण-सौकुमार्ये लः ॥ ६८ ॥ . ऐषु यस्य ल्लो भवति । पर्यस्तं पल्लय़ पल्लत्थं । पल्लाणं । सोअमलं ॥ पल्लङ्को इति च पल्यङ्कशब्दस्य यलोपें द्वित्वे च ॥ पलिअको इत्यपि चौर्यसमत्वात् ॥
बृहस्पति-वनस्पत्योः सो वा ॥ ६९ ॥ अनयोः संयुक्तस्य सो वा भवति ॥ बहस्सई बहप्फई । भयस्सई भयप्फई । वणस्सई वणप्फई ॥
बाष्पे होश्रुणि ॥ ७० ॥ बाष्पशब्दे संयुक्तस्य हो भवति अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ।। अश्रुणीति किम् ।। बप्फो ऊष्मा ।।
कार्षापणे ॥ ७१॥ कार्षापणे संयुक्तस्य हो भवति ॥ काहावणो ॥ कथं कहावणो । हस्वः संयोगे [१.८४] इति पूर्वमेव ह्रस्वत्वे पश्चादादेशे । कर्षापणशब्दस्य वा भविष्यति ॥
१B ॥ ६६ ॥ एतः. २ PB ॥ ६८ ॥ पर्यस्त-पर्याण-सौकुमार्य एषु. ३ P बिह. ४ A बाप्फो.