________________
२.१९]
प्राकृतव्याकरणम् ।
४७३
far || श्रुत्वा । सोचा । पृथ्वी । पिच्छी ॥ विद्वान् । विज्जं ॥
बुद्धा बुझा ॥
भोश्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-ग्गामि' । चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥
वृश्चिके
॥ १६ ॥
वृश्चिके वेः सस्वरस्य स्थाने ञ्चुरादेशो वा भवति । छापवादः । विचुओ विंचुओ | पक्षे । विञ्छ ||
छोक्ष्यादौ ॥ १७ ॥
1
अक्ष्यादिषु संयुक्तस्य छो भवति । खस्यापवादः ॥ अच्छि । उच्छू | लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । छुहा । दच्छो । कुच्छी । वच्छं । छुण्णो । कच्छा । छारो । कुच्छेअयं । छुरो । उच्छा । छयं । सारिच्छं || अक्षि । इक्षु | लक्ष्मी । कक्ष क्षुत । क्षीर । सदृक्ष । वृक्ष । मक्षिका । क्षेत्र | क्षुध् । दक्ष । कुक्षि | वक्षस् । क्षुण्ण । कक्षा । क्षार | कौक्षेयक । क्षु । उक्षन् | क्षत | सादृश्ये ॥ कचित् स्थगितर्शंब्देपि । छइअं ।। आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥
I
क्षमायां कौ ॥ १८ ॥
कौ पृथिव्यां वर्तमाने क्षमाशब्दे संयुक्तस्य छो भवति ॥ छमा पृथिवी || लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा | काविति किम् । खमा क्षान्तिः ॥
ऋक्षे वा ।। १९ ।।
ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो ॥ कथं छूढं क्षिप्तं । वृक्ष - क्षिप्तयो रुक्ख छूढौ [ २.१२७] इति भविष्यति ॥
१ P ग्गामि ॥ वृश्चि°. २ B विंचुवो. ३ A छोऽक्षादौ ४ A अक्षादि - ५ P सादृक्ष्य. ६ A शब्दोपि ७B स्य छो भ..