SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४७२ हेमचन्द्राचार्यविरचितं . [२.७स्थाणावहरे ॥ ७॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ॥ अहर इति । किम् । थाणुणो रेहा ॥ स्तम्भे स्तो वा ॥ ८॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो । काष्ठादिमयः॥ थ-ठावस्पन्दे ॥ ९॥ स्पन्दाभाववृत्तौ स्तम्भे स्तस्य थठौ भवतः ॥ थम्भो । ठम्भो ॥ स्तम्भ्यते । थम्भिज्जेइ ठम्भिजइ ॥ रक्ते गो वा ॥ १०॥ रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ॥ . . शुल्के ङ्गो वा ॥ ११ ॥ शुल्कँशब्दे संयुक्तस्य ङ्गो वा भवति ॥ सुङ्गं सुकं ॥ कृत्ति-चत्वरे चः ॥ १२ ॥ अनयोः संयुक्तस्य चो भवति । किच्ची । चञ्चरं ॥ त्योचैत्ये ॥ १३॥ चैत्यवर्जिते त्यस्य चो भवति ॥ सच्चं । पञ्चओ ॥ अचैत्य इति किम् । चइत्तं ॥ प्रत्यूषे षश्च हो वा ॥ १४ ॥ प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति ॥ पचूहो । पञ्चूसो ॥ त्व-थ्व-द्व-ध्वां च-छ-ज-झाः क्वचित् ॥ १५ ॥ एषां यथासंख्यमेते कचिद् भवन्ति ॥ भुक्त्वा । भोच्चा ॥ ज्ञात्वा । __ १B स्तभ्यते. २ A थम्भिजइ ॥र'. ३ B शुक्ले गो; P शुक्ले गो. ४ PB शुकश.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy