________________
४७०
हेमचन्द्राचार्यविरचितं . [१.२६८व्याकरण-प्राकारागते कगोः ॥ २६८॥ एषु को गश्च सस्वरस्य लुग् वा भवति ॥ वारणं वायरणं । पारो पायारो ॥ आओ आगओ ॥
किसलय-कालायस-हृदये यः ॥ २६९ ॥ एषु सस्वरयकारस्य लुग् वा भवति ॥ किसलं किसलयं । कालासं कालायसं । महण्णव-समा सहिआ। जाला ते सहिअएहिं-घेपन्ति । निसमणुप्पिअ-हिअस्स हिअयं ॥
दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तर्दः ॥ २७० ॥ .. एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग् वा भवति ॥ दुग्गा-वी। दुग्गा-एवी। उम्बरो उउम्बरो । पा-वडणं पाय-वडणं । पा-वीढं पाय-वीढं ॥ अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥
यावत्तावजीवितावर्तमानावट-प्रावारक-देवकुलैवमेवे वः२७१ यावदादिषु सस्वैरवकारस्यान्तर्वर्तमानस्य लुग् वा भवति ।। जा जाव । ता ताव । जीअं जीविअं । अत्तमाणो आवत्तमाणो । अडो अवडो । पारओ पावारओ । दे-उलं देव-उलं । एमेव एवमेव ॥ अन्तरित्येव । एवमेवेन्त्यस्य न भवति ॥ . . , इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ
शब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः॥ यद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप क्रीतं वैरिकुलात् त्वया किल दलत्कुन्दावदातं यशः । भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥ १ ॥
१ PB °रस्य य°.२ A उम्बरे। उउम्बरे. ३ PB°रस्य व. ४ AB वेत्यस्य. ५ B °अष्टमाध्या'. ६ P omits this verse. ७ B सिंहा. ८ B °वस्थि'.