________________
१.२६७ 1. प्राकृतव्याकरणम्।
४६९ , श-पोः सः ॥ २६० ॥ शकारषकारयोः सो भवति ॥ श । सहो । कुसो । निसंसो । 'वंसो । सामो । सुद्धं । दस । सोहइ। विसइ ॥ ष । सण्डो निहसो । कसाओ । घोसइ । उभयोरपि । सेसो । विसेसो ।।
सुषायां हो न वा ॥ २६१ ॥ स्नुषाशब्दे षस्य ण्हः णकाराक्रान्तो हो वा भवति ॥ सुण्हा सुसा ॥
दश-पाषाणो हः ॥ २६२ ॥ दशनशब्दे पाषाणशब्दे च शोर्यथादर्शनं हो वा भवति ॥ दह-मुहो दस-मुहो । दह-बलो. दस-बलो. । दह-रहो दस-रहो । दह दस । एआरह । बारह । तेरह । पाहाणो पासाणो ॥
दिवसे सः॥ २६३॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो ।
हो घोनुस्वारात् ॥ २६४ ॥ अनुस्वारात्परस्य हस्य धो वा भवति ॥ सिंघो। सीहो ॥ संघारो संहारो । कचिदननुस्वारादपि । दाहः । दाघो ॥
षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ २६५ ॥ एष आदेर्वर्णस्य छो भवति ॥ छट्टो । छट्ठी । छप्पओ। छम्मुहो । छमी । छावो । छुहा । छत्तिवण्णो ॥ ....शिरायां वा ॥ २६६ ॥ शिराशब्दे आदेश्छो वा भवति ॥ छिरा सिरा ॥
लुग् भाजन-दनुज-राजकुले जः सस्वरस्य न वा ॥ २६७ ।। एषु सस्वरेजकारस्य लुग् वा भवति ॥ भाणं भायणं । दणु-वहो । दणुअ-वहो । रा-उलं राय-उलं ॥
१ B दंसी. २ A सामो. ३ B दसा. ४ B ण्हो वा. ५ B °स्य णका ६ P°शश'. . B हो भ. . B घो भ'.९ B °स्वारात् ।..१० Pएस्य ज,