SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ १.२५३ प्राकृतव्याकरणम् । ४६७ • युष्मद्यर्थपरे तः ॥ २४६ ॥ युष्मच्छब्देर्थपरे यस्य तो भवति ॥ तुम्हारिसो । तुम्हकेरो ॥ अर्थपर इति किम् । जुम्हदम्ह-पयरणं ॥ यष्टयां लः ॥ २४७॥ यष्ट्यां यस्य लो भवति ॥ लट्ठी । वेणु-लट्ठी। उच्छु-लट्ठी । महु-लट्ठी ॥ वोत्तरीयानीय-तीय-कृये जः॥ २४८ ॥ उत्तरीयशब्दे अनीयतीयकृद्यप्रत्ययेषु च यस्य द्विरुक्तो जो वा भवति । उत्तरिजं उत्तरीअं । अनीय । करणिजं करणीअं । विम्हयणिज्जं विम्हयणीअं । जवणिजं जवणीअं ॥ तीय । बिइजो बीओ ॥ कृद्य । पेज्जा पेआ ॥ ___ छायायां होकान्तौ वा ॥ २४९ ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स च्छाँही वच्छस्स च्छाया । आतपाभावः । सच्छाहं सच्छायं ॥ अकान्ताविति किम् ॥ मुह-च्छाया । कान्तिरित्यर्थः ॥ डाह-वौ कतिपये ॥२५० ॥ कतिपये यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ कइवाहं । कइअवं ॥ किरि-भेरें रो डः ॥ २५१ ॥ अनयो रस्य डो भवति ।। किडी । भेडो । - पर्याणे डा वा ॥ २५२ ॥ पर्याणे रस्य डा इत्यादेशो वा भवति ॥ पडायाणं पल्लाणं ॥ करवीरे णः ॥ २५३ ॥ करवीरे प्रथमस्य रस्य णो भवति ॥ कणवीरो॥ १B विम्हणि°. २ A पेजो. ३ B छाया.. ४ B छाहा. ५ B डो वा भ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy