________________
१.१९८] - प्राकृतव्याकरणम् ।
४५९ · पुन्नाग-भागिन्योर्गो मः ॥ १९०॥ अनयोर्गस्य मो भवति ॥ पुन्नामाइँ वसन्ते । भामिणी ॥
छागे लः ॥ १९१॥ छागे' गस्य लो भवति ॥ छालो । छाली ॥
ऊत्वे दुर्भग-सुभगे वः ॥ १९२ ॥ अनयोरूत्वे गस्य वो भवति ॥ दूहवो। सूहवो ॥ ऊत्व इति किम् । दुहओ । सुहओ ॥ .
खचित-पिशाचयोश्चः स-ल्लौ वा ॥१९३॥ ..... अनयोश्चस्य यथासंख्यं स ल इत्यादेशौ वा भवतः ॥ खसिओ खइओ । पिसल्लो पिसाओ । - जटिले जो झो वा ॥ १९४ ॥ जटिले जस्य झो वा भवति ॥ झडिलो जडिलो ॥
टो डः ॥ १९५॥ .. स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति ॥ नडो । भडो। घडो। घडइ ।। स्वरादित्येव । घंटा ॥ असंयुक्तस्येत्येव । खट्टो ॥ अनादे.रित्येव । टक्को । कचिन्न भवति । अटति । अटइ ॥ . सटा-शकट-कैटभे ढः ॥ १९६॥ एषु टस्य ढो भवति ॥ सढा । सयढो । केढेवो ॥ . स्फटिके लः ॥ १९७ ॥ स्फटिके टस्य लो भवति ।। फलिहो ।
चपेटा-पाटौ वा ॥ १९८ ॥ चपेटाशब्दे ण्यन्ते च पटिधातौ टस्य लो वा भवति॥ चविला चविडा। • फालेई फाडेइ ॥ - A छागग'. २ B खटा. A ३ कैढवो. ४ P °ते च पाटौ धा'; B°ते पाटौ धा'. ५ B फालइ.