________________
४६०
हेमचन्द्राचार्यविरचितं [१.१९९• ठो ढः ॥ १९९ ॥ स्वरात्परस्यासंयुक्तस्यानादेष्टस्य ढो भवति ॥ मढो । सढो । कमढो । कुढारो । पढइ ॥ स्वरादित्येव । वेकुंठो ॥ असंयुक्तस्येत्येव । चिट्ठइ ॥ . अनादेरित्येव । हिअए ठाइ ॥
अङ्कोठे ल्लः ॥ २००॥ अकोठे ठस्य द्विरुक्तो लो भवति । अङ्कोल्लतेल-तुप्पं ।।
पिठरे हो वा रश्च डः ॥ २०१॥ पिठेर ठस्य हो वा भवति तत्संनियोगे च रस्य डो भवति ॥ पिहडो पिढरो॥
डो लः ॥ २०२॥ स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ॥ वडवामुखम् । वलया-मुहं ॥ गरुलो। तलायं । कीलइ ॥ स्वरादित्येव । मोंडं । कोंडं ॥ असंयुक्तस्येत्येव । खग्गो ॥ अनादेरित्येव । रमइ डिम्भो ॥ प्रायोग्रहणात् कचिद् विकल्पः । वलिसं वडिसं । दालिमं दाडिमं । गुलो गुडो । णाली णाडी । णलं णडं । आमेलो आवेडो॥ कचिन्न भवत्येव । निबिडं । गउडो । पीडिअं । नीडं । उडू । तडी ॥
वेणौ णो वा ॥ २०३॥ वेणौ णस्य लो वा भवति ॥ वेलू । वेणू ॥
तुच्छे तश्च-छौ वा ॥ २०४॥ तुच्छशब्दे तस्य च छ इत्यादेशौ वा भवतः ॥ चुच्छं । छुच्छं । तुच्छं ॥
तगर-त्रसर-तूबरे टः ॥ २०५॥ एषु तस्य टो भवति ॥ टगरो । टसरो । टूवरो ।।
१ B नडं. २ A आमेडो. ३ A °शौ म.