________________
४५८
हेमचन्द्राचार्यविरचितं . [ १.१८४. शीकरे भ-हौ वा ॥ १८४ ॥ शीकरे कस्य भहौ वा भवतः ॥ सीभरो सीहरो। पक्षे । सीअरो॥
चन्द्रिकायां मः ॥ १८५ ॥ चन्द्रिकाशब्दे कस्य मो भवति ॥ चन्दिमा ॥ ... ..... - निकष-स्फटिक-चिकुरे हः ।। १८६ ॥ .. ... एषु कस्य हो भवति ॥ निहसो । फलिहो । चिहुरो । चिहुरशब्दः संस्कृतेपि इति दुर्गः ॥
ख-घ-थ-ध-भाम् ॥ १८७ ॥ स्वरात्परेषामसंयुक्तानामनादिभूतानां ख घ: थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा । मुहं । मेहला । लिहइ ॥ घ । 'मेहो । जहणं । माहो । लाहइ ॥ थ । नाहो । आवसहो । मिहुणं । कहइ ॥ ध । साहू । वाहो । बहिरो। बाहइ । इन्द-हेणू ॥ . भ । सहा । सहावो । नहं । थणहरो। सोहइ ॥ स्वरादित्येव । संखो । संघो । कंथा । बंधो । खंभो ॥ असंयुक्तस्येत्येव । अक्खइ । अग्घइ । कत्थइ । सिद्धओ । बन्धइ । लब्भइ ॥ अनादेरित्येव । गजन्ते खे मेहा । गच्छइ घणो ॥ प्राय इत्येव । सरिसव-खलो। पलय-घणो । अथिरो । जिण-धम्मो । पण?-भओ । नभं ॥
पृथकि धो वा ॥ १८८ ॥ पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं पुहं ॥ .
शृङ्खले खः कः ॥ १८९ ॥ शृङ्खले खस्य को भवति ॥ सङ्कलं ॥
__ १ B °करे भ. २ P हुग्गः . ३ P सुहं. ४ B मोहो. ५ A इंदुधण. ६ B लुब्भइ. ७ P गज्जंति. ८ B °हा फुल्ला नीवा पणत्थिरा मोरा । नट्ठो चंदुजोउ वासारत्तो हला पत्तो । गच्छ०. ९ B अत्थिरो. १. A नह....