SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ १.१८३] प्राकृतव्याकरणम् । ४५७ • यमुना-चामुण्डा-कामुकातिमुक्तके मोनुनासिकश्च ॥१७८॥ एषु मस्य लुग् भवति लुकि च सति मस्य स्थाने अनुनासिको भवति ॥ जउँणा । चाउँण्डा । काउँओ। अणिउँतयं ॥ कचिन्न भवति । अइमुंतयं । अइमुत्तयं ॥ नावर्णात्पः ॥ १७९ ॥ अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सवहो । सावो ॥ अनादेरित्येव । परउट्ठो ॥ अवर्णो यश्रुतिः ॥ १८० ॥ कगचजेत्यादिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति ॥ तित्थयरो। सयढं । नयरं । मयको । कयग्गहो । काय-मणी । रययं । पयावई । रसायलं । पायालं । मयणो । गया । नयणं । दयालू । लायण्णं ॥ अवर्ण इति किम् । सउणो । पउणो । पउरं । राईवं । निहओ । निनओ । वाऊ । कई । अवर्णादित्येव । लोअस्स । देअरो ॥ क्वचिद् भवति । पियइ ॥ कुब्ज-कर्पर-कीले कः खोपुष्पे ॥ १८१ ॥ एषु कस्य खो भवति पुष्पं चेत् कुब्जाभिधेयं न भवति ॥ खुज्जो । खप्परं । खीलओ ॥ अपुष्प इति किम् । बंधेउ कुज्जय-पसूणं । · आर्षेन्यत्रापि । कासितं । खासिअं । कसितं । खसि ॥ ..'. मरकत-मदकले गः कन्दुके त्वादेः ॥ १८२ ॥ अनयोः कस्य गो भवति कन्दुके त्वाद्यस्य कस्य ॥ मरगयं । मयगलो । गेन्दुअं॥ किराते चः ॥ १८३ ॥ किराते कस्य चो भवति ॥ चिलाओ ॥ पुलिन्द एवायं विधिः । कामरूपिणि तु नेष्यते । नमिमो हर-किरायं ॥ १B कीलके कः. २ B खासितं. ३ A कषितं. ४ B °द्यस्य । म°.'
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy