________________
४५६
हेमचन्द्राचार्यविरचितं [१.१७७क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ १७७॥ खरात्परेषामनादिभूतानामसंयुक्तानां कगचजतदपयवानां प्रायो लुग् भवति ॥ क । तित्थयरो । लोओ । सयढं ॥ ग । नओ। नयरं । मयको ॥ च । सई । कय-ग्गहो ॥ ज । रययं । पयावई । गओ ॥ त । विआणं । रसा-यलं । जई ॥ द । गया । मयणो ॥ ५ । रिऊ । सुउरिसो ॥ य । दयालू । नयणं । विओओ ॥ व । लायण्णं । विउहो । वलयाणलो ॥ प्रायोग्रहणात्वचिन्न भवति । सुकुसुमं । पयागजलं । सुगओ । अगरू । सचावं । विजणं । सुतारं । विदुरो। स-. पावं । समवाओ । देवो । दाणवो ॥ स्वरादित्येव । संकरो । संगमो । नकचरो । धणंजओ । विसंतवो । पुरंदरो । संवुडो , संवरो ॥ असंयुक्तस्येत्येव । अक्को । वग्गो । अञ्चो । वजं । धुत्तो । उहाँमो । विप्पो । कजं । सव्वं ॥ क्वचित्संयुक्तस्यापि । नक्तंचरः ।. नकंचरो ॥ अनादेरित्येव । कालो । गन्धो । चोरो। जारो । तरू। दवो । पावं । वण्णो ॥ यकारस्य तु जत्वम् आदौ वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो सुहयरो । आगमिओ आयमिओ । जलचरो जलयरो। बहुतरो बहुअरो । सुहदो। सुहओ । इत्यादि । कचिदादेरपि । स पुनः। स उण ॥ स च । सो अ॥ चिह्न । इन्धं ॥ कचिच्चस्य जः । पिशाची । पिसाजी ॥ एकत्वम् । एगत्तं ॥ एकः । एगो ।। अमुकः । अमुगो । असुकः । असुगो ।। श्रावकः । सावगो ॥ आकारः । आगारो ॥ तीर्थकरः । तित्थगरो॥ आकर्षः। आगरिसो॥ लोगस्सुज्जोअगरा इत्यादिषु तु व्यत्ययश्च [४.४४७] इत्येव कस्य गत्वम् ॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं आउण्टणं । अत्र चस्य टत्वम् ॥
१ A विज°. २ B नत्तंचरो. ३ A °स्येति किम् । अको. ५ B उद्दामो । कजं. ५ A °देरिति किम्. ६. P °यरो। सहकारो। सहयारो। आग'. GA उणो.