________________
१.१७६ ].
प्राकृतव्याकरणम् ।
४५५
चोत्थो चत्थो । चोत्थी चउत्थी । चोद्दह । चउद्दह । चोद्दसी चउइसी । चोव्वारो चउव्वारो । सोमालो सुकुमालो । कोहलं कोडहल्लं । तह मन्ने कोहलिए । ओहलो उऊहलो । ओक्खलं । उलूहलं || मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ॥
अवापोते' ॥ १७२ ॥
अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ।। अव । ओअरइ | अवयरइ | ओआसो अवासो ॥ अप । ओसरइ अवसरइ । ओसारिअं अवसारिअं । उत । ओ वणं । ओ घणो । उअ वणं । उअ घणो ॥ क्वचिन्न भवति । अवगयं । अवसहो । उअ रवी ॥
ऊच्चोपे ॥ १७३॥
उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओच्चादेशौ वा भवतः ॥ ऊहसिअं ओहसिअं उवहसिअं । ऊज्झाओ ओझाओ उवज्झाओ । ऊआसो ओआसो उववासो ॥
उमो निषण्णे ॥ १७४ ॥
निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो वा भवति ॥ णुमण्णो । णिसण्णो ॥
प्रावरणे अङ्ग्वाऊ ॥ १७५॥
प्रावरणशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह अङ्गु आउ इत्येतावादेशौ वा भवतः ॥ पङ्कुरणं पाउरणं पावरणं ॥
स्वरादसंयुक्तस्यानादेः ॥ १७६ ॥
अधिकारोयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्स्वरात्परस्यासंयुक्तस्यानादेर्भवतीति वेदितव्यम् ॥
१ B सुउमालो. २ B° पोते च ॥ ७२ ॥ ३ P पातस्य चादेः ४ P शब्दस्यादेः :