________________
४५४ हेमचन्द्राचार्यविरचितं .. [१.१६५
एत्त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ १६५ ॥ त्रयोदर्श इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण ब्यञ्जनेन सह एद् भवति ।। तेरह । तेवीसा । तेतीसा॥
स्थविर-विचकिलायस्कारे ॥ १६६॥ एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो । वेइल्लं । मुद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एक्कारो ॥. ..
वा कदले ॥ १६७ ॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति ।। केलं कयलं । केली कयली ॥
वेतः कर्णिकारे ॥ १६८ ॥ कर्णिकारे इतः सस्वरव्यञ्जनेन ‘सह एद् वा भवति ॥ कणेरो
कण्णिआरो॥ . अयौ वैत् ॥ १६९ ॥
अयिशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऐद् वा भवति । ऐ बीहमि । अइ उम्मत्तिए । वचनादैकारस्यापि प्राकृते प्रयोगः ॥
ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १७० ।। पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओंद् भवति ॥ पोरो । बोरं । बोरी । नोमालिआ । नोहलिआ । पोप्फलं । पोप्फली ।। न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार
कुतूहलोदूखलोलुखले ॥ १७१ ॥ मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ।। मोहो मऊहो । लोणं । इअ लवणुग्गर्मा । चोग्गुणो। चउग्गुणो । ___१ B °शन्नित्ये . २ B °स्वरव्य'. ३ P तेत्तीसा. ४ B कणे. ५ P अइ. ६ A °ग्गम. ७ P चउगुणो.