________________
१.१५१]. प्राकृतव्याकरणम् । • लत इलिः क्लृप्त-कृन्ने ॥ १४५ ॥
अनयोलत इलिरादेशो भवति ॥ किलिन्न-कुसुमोवयारेसु ॥ धाराकिलिन्न-वत्तं ॥
एत इद्वा वेदना-चपेटा-देवर-केसरे ॥ १४६ ॥ वेदनादिषु एत इत्त्वं वा भवति ॥ विअणा वेअणा । चविडा । विअडचवेडा-विणोआ । दिअरो देवरो ॥ महमहिअ-देसण-किसरं । केसरं ॥ महिला महेला इति तु महिलामहेलाभ्यां शब्दाभ्यां सिद्धम्॥
ऊः स्तेने वा ॥ १४७॥ . स्तेने एत ऊद् वा भवति ॥ थूणो थेणो॥
ऐत एत् ॥ १४८ ॥ ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलोक्कं । एरावणो । केलासो । वेजो । केढवो । वेहव्वं ॥
इत्सैन्धव-शनैश्चरे ॥ १४९ ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो॥ - सैन्ये वा ॥ १५० ॥ सैन्यशब्दे ऐत इद् वा भवति ॥ सिन्नं सेन्नं ॥
अइदैत्यादौ च ॥ १५१ ॥ सैन्यशब्दे दैत्य इत्येवमादिषु च ऐतो अइ इत्यादेशो भवति । एत्वापवादः ।। सइन्नं । दइच्चो । दइन्नं । अइसरिअं । भइरवो। वइजवणो। दइवरं । वइआलीअं । वइएसो । वइएहो । वइदब्भो । वइस्साणरो। कइअवं । वइसाहो । वइसालो। सइरं । चइत्तं ॥ दैत्य । दैन्य । ऐश्वर्य । भैरव । वैजवन । दैवत । वैतालीय । वैदेश । वैदेह । - १P वन्ने; B वन्तं. २ P°विडा। चवेडा। विअ. ३ B दंसण. ४ P महेलाशब्दा; B°महेलाभ्यां सि.५ B सेला । सेन्नं । ते..