________________
४४४
हेमचन्द्राचार्यविरचितं . [१.९५. प्रवासीक्षौ ॥९५॥ अनयोरादेरित उत्वं भवति ।। पावासुओ । उच्छू ॥
युधिष्ठिरे वा ॥९६॥ युधिष्ठिरंशब्दे आदेरित उत्वं वा भवति ।। जहुट्ठिलो । जहिट्ठिलो॥
ओच्च द्विधाकृगः ॥९॥ द्विधाशब्दे कृग्धातोः प्रयोगे इत ओत्वं चकारादुत्वं च भवति । दोहा-किज्जइ । दुहा-किजइ ॥ दोहा-इअं । दुहा-इशं ॥ कृर्ग इति किम् । दिहा-गयं । कचित् केवलस्यापि ॥ दुहा वि सो सुर-वहू-सत्थो॥
वा निर्झरे ना ॥९८॥ निर्झरशब्दे नकारेण सह इत ओकारो वा भवति ॥ ओझरो निज्झरो॥ __ हरीतक्यामीतोत् ॥ ९९ ॥ . . हरीतकीशब्दे आदेरीकारस्य अद् भवति ॥ हरडई ।।
आत्कश्मीरे ॥ १०० ॥ कश्मीरशब्दे ईत आद् भवति ॥ कम्हारों ॥
पानीयादिष्वित् ॥ १०१॥ , पानीयादिषु शब्देषु ईत इद् भवति ॥ पाणि । अलिअं । जिअइ । जिअउ । विलिअं । करिसो । सिरिसो। दुइअं । तइअं । गहिरं । उवणिरं । आणि । पलिविअं । ओसिअन्तं । पसिअ । गहिअं । वम्मिओ । तयाणि ॥ पानीय । अलीक ॥ जीवति । जीवतु । ब्रीडित। करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीत । प्रदीपित । अवसीदत् । प्रसीद । गृहीत । वल्मीक । तदानीम् । इति पानीयादयः ॥ बहुलाधिकारादेषु कचिन्नित्यं कचिद् विकल्पः । तेन । पाणीअं । अलीअं । जीअइ । करीसो । उवणीओ । इत्यादि सिद्धम् ।।
१ P °ष्ठिरे श°. २ P कृनः. ३ P कृञ्°. ४ P कृञ. A कम्हारो. ६°A °णिं । इयाणि । पा.