________________
४४२
हेमचन्द्राचार्यविरचितं [१.८३-- ओदाल्यां पतौ ॥ ८३॥ आलीशब्दे पङ्क्तिवाचिनि आत ओत्वं भवति । ओली ॥ पङ्क्ताविति किम् । आली सखी ॥
हस्वः संयोगे ॥ ८४॥ दीर्घस्य यथादर्शनं संयोगे परे ह्रस्वो भवति ॥ आत् । आम्रम् । अम्बं ॥ ताम्रम् । तम्बं ॥ विरहाग्निः । विरहग्गी ॥ आस्यम् । अस्सं ॥ ईत् । मुनीन्द्रः । मुणिन्दो ॥ तीर्थम् । तित्थं ॥ ऊत् । गुरूल्लापाः । . गुरुल्लावा ॥ चूर्णः । चुण्णो॥ एत् । नरेन्द्रः । नरिन्दो ॥ म्लेच्छः ।। मिलिच्छो ॥ दिदिक्क-थण-वढे ॥ ओत् । अधरोष्ठः । अहरुटुं ॥ नीलोत्पलम् । नीलुप्पलं ॥ संयोग इति किम् । आयासं। ईसरो । ऊसवो॥
इत एद्वा ॥ ८५॥ संयोग इति वर्तते । आदेरिकारस्य संयोगे परे एकारो वा भवति ॥ ., पेण्डं पिण्डं । धम्मेल्लं धम्मिलं । सेन्दूरं सिन्दूरं । वेण्हू विण्हू । पेटुं पिटुं । बेल्लं बिल्लं ।। क्वचिन्न भवति । चिन्ता ।।
किंशुके वा ॥ ८६॥ किंशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं किंसुअं॥
मिरायाम् ॥ ८७॥ मिराशब्दे इत एकारों भवति ॥ मेरा ॥ ..
पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत् ।। ८८ ॥ एषु आदेरितोकारो भवति ॥ पहो । पुहई । पुढवी । पडंसुआ । मूसओ। हलद्दी। हलद्दा । बहेडओ ॥ पन्थं किर देसिचेति तु पथिशब्दसमानार्थस्य पन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इत्यन्ये । हलिद्दी हलिहा ॥
१ B°गे दीर्घस्य ॥ ८४ ॥ य°. २ A °रो वा भ'. ३ B पथिशब्दार्थसमा ४. A पथिश.