________________
४४१.
१.८२]
प्राकृतव्याकरणम् । उः साना-स्तावके ॥ ७५ ॥ अनयोरादेरात उत्वं भवति ॥ सुण्हा । थुवओ ।
ऊद्वासारे ॥ ७६ ॥ आसारंशब्दे आदेरात कैद वा भवति ॥ ऊसारो । आसारो॥ .. आर्यायां यः श्वश्वाम् ॥ ७७ ॥ आर्याशब्दे श्वश्वां वाच्यायां यस्यात ऊर्भवति ॥ अज्जू । श्वश्वामिति किम् । अजा ।। .
एद् ग्राह्ये ॥ ७८॥ प्राह्यशब्दे आदरात्. एद् भवति ॥ गेझं ।
द्वारे वा ॥७९॥ द्वारशब्दे आत ऎद् वा भवति ॥ देरं । पक्षे । दुआरं दारं बारं । कथं नेरइओ नारइओ । नैरयिकनारकिकशब्दयोर्भविष्यति ॥ आर्षे
अन्यत्रापि । पच्छेकम्मं । असहेज देवासुरी ॥ . पारापते रो वा ॥ ८० ॥
पारापतशब्दे रस्थस्यात एंद् वा भवति ।। पारेवओ पारावओ ॥ . . मात्रटि वा ॥ ८१ ॥
मात्रटप्रत्यये आत एद् वा भवति । एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुला.' धिकारात् कचिन्मात्रशब्देपि । भोअण-मेत्तं ।।
उदोद्वाट्टै ॥ ८२॥ आईशब्दे आदेरात उद् ओच्च वा भवतः ॥ उल्लं । ओल्लं । पक्षे । अल्लं । अदं । बाह-सलिल-पवहेण उल्लेइ॥
१ AB आसारे आ°. २ P ° त ऊद्भ' ३ A ° यां यः श्व. ४ A यस्या. ५ A द्वारे श. ६ A एत्वं. ७ B बारं. ८ B नारयिक. ९ B सुर. १० A पबाहेण.