________________
१.६७]
प्राकृतव्याकरणम् ।
नमस्कार - परस्परे द्वितीयस्य ॥ ६२ ॥
अनयोर्द्वतीयस्य अत ओत्वं भवति ।। नमोक्कारो | परोप्परं ॥
वाप ॥ ६३ ॥
४३९
अर्पयतौ धातौ आदेरस्य ओत्वं वा भवति || ओप्पेइ अप्पेइ । ओपिअं अप्पि |
स्वपावुच्च ॥ ६४ ॥
स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ ॥ नात्पुनर्यादाई वा ॥ ६५ ॥
नमः परे पुनः शब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उणा । न उणाइ | पक्षे । न उण । न उणो ॥ केवलस्यापि दृश्यते । पुणा ॥
वालाब्वरण्ये लुक् ॥ ६६ ॥
अलाब्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ अलाऊ । रण्णं अरण्णं ॥ अत इत्येव । आरण्ण - कुञ्जरो व्व वेल्लन्तो ॥ वाव्ययोत्खातादावदातः ॥ ६७ ॥
भवति ॥
अव्ययेषु उत्खातादिषु च शब्देषु आदेराकारस्य अद् वा अव्ययम् । जह जहा । तह तहा अहव अहवा । व वा । ह हा । इत्यादि ॥ उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ कालओ । ठविओ ठाविओ । परिट्ठविओ । परिट्ठाविओ । संठविओ संठाविओ । पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिने । नराओ नाराओ । बलया बलाया । कुमरो कुमारो | खरं खाइरं ॥ उत्खात । चामर । कालक स्थापित । प्राकृत । तालवृन्त । हालिक । नाराच । बलाका । कुमार । खादिर | इत्यादि । केचिद् ब्राह्मणपूर्वायोरपीच्छन्ति । बम्हणो बाम्हणो ।
१ P°इव २ A अव्यय; B अव्यये .