________________
४३८
हेमचन्द्राचार्यविरचितं . [१.५५प्रथमे प-थोर्वा ।। ५५॥ प्रथमशब्दे पकारथकारयोरकारस्य युगपत् क्रमेण च उकारो वा भवति । पुढुमं पुढमं पढुमं पढमं ॥
ज्ञो णत्वेभिज्ञादौ ।। ५६॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिण्णू । सव्वण्णू । कयण्णू । आगमण्णू ॥ णत्व इति किम् । अहिजो । सव्वज्जो ॥ अभिज्ञादाविति किम् । प्राज्ञः । पण्णो ॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञादयः ।।
एच्छय्यादौ ।। ५७॥ शय्यादिषु आदेरस्य एत्वं भवति ॥ सेज्जा । सुन्दरं । गेन्दुअं । एत्थ ॥ शय्या । सौन्दर्य । कन्दुक । अत्र ॥ आर्षे पुरेकम्मं ॥ .
वल्लयुत्कर-पर्यन्ताश्चर्ये वा ॥ ५८ ॥ .. एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उक्केरो उकरो । पेरन्तो पज्जन्तो। अच्छेरं अच्छरिअं अच्छअरं अच्छरिजं अच्छरीअं॥
ब्रह्मचर्ये चः ॥ ५९॥ ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति ।। बम्हचेरं ॥ ,
तोन्तरि ॥६०॥ अन्तरशब्दे तस्य अत एत्वं भवति ।। अन्तःपुरम् । अन्तेउरं ॥ अन्तश्वारी । अन्तेआरी ।। क्वचिन्न भवति । अन्तग्गयं । अन्तो-वीसम्भ-निवेसिआणं ॥
ओत्पझे ।। ६१॥ पद्मशब्दे आदेरत ओत्वं भवति ।। पोम्मं ।। पद्म-छद्म० [२. ११२ ] इति विश्लेषे न भवति । पउमं ।।
१ A अभिण्णू. २ A अहिजो । अभि'. ३ B°त्वं वा भ°. ४ B एत्थं.. ५ बम्भचेरं.