________________
१.५४ ]
प्राकृतव्याकरणम् । मुइङ्गो । किविणो । उत्तिमो । मिरिअं । दिण्णं ॥ बहुलाधिकाराण्णत्वाभावे न भवति । दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । वेतस । व्यलीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच । दत्त । इत्यादि ।
पक्काङ्गार-ललाटे वा ॥४७॥ एष्वादेरत इत्वं वा भवति ॥ पिकं पकं । इङ्गालो अङ्गारो । णिडालं णडालं ॥
मध्यम-कतमे द्वितीयस्य ॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात इत्वं भवति ॥ मज्झिमो । कइमो॥
सप्तपणे वा ॥४९॥ सप्तपर्णे द्वितीयस्यात इत्वं वा भवति ॥ छत्तिवण्णो । छत्तवण्णो ॥
मयंव्यइर्वा ॥५०॥ मयद्प्रत्यये आदरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः। विसमइओ विसमओ ॥ . ... ईहरे वा ॥५१॥ . हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हो ।
ध्वनि-विष्वचोरुः ॥५२॥ अनयोरादेरस्य उत्वं भवति ॥ झुणी। वीसु ॥ कथं सुणओ । शुनक इति प्रकृत्यन्तरस्य ॥ श्वनशब्दस्य तु सा साणो इति प्रयोगौ भवतः ।। - वन्द्र-खण्डिते णा वा ॥ ५३ ॥ अनयोरादेरस्य णकारेण सहितस्य उत्वं वा भवति ॥ बुन्द्रं वन्द्र । खुडिओ खण्डिओ॥
गवये वः ॥५४॥ गवयशब्दे वकाराकारस्य उत्वं भवति ॥ गउओ । गउआ ॥
A छत्तिपण्णो. २ P बन्द्र; B चण्ड. ३ P बुद्रं बन्दं; B चुडं चण्डं, ४ A वकारस्य उ.