________________
हेमचन्द्राचार्यविरचितं - - [१.३४माहप्पो माहप्पं । दुक्खा दुक्खाइं ॥ भायणा भायणाई। इत्यादि । इति वचनादयः ॥ नेत्ता नेत्ताइं । कमला कमलाई इत्यादि तु संस्कृतबदेव सिद्धम् ॥
गुणाद्याः क्लीवे वा ॥ ३४ ॥ गुणादयः क्लीबे वा प्रयोक्तव्याः ॥ गुणाइं गुणा । विहवेहिं गुणाइँ मग्गन्ति । देवाणि देवा । बिन्दूई बिन्दुणो । खग्गं खरंगो। मण्डलग्गं मण्डलग्गो। कररुहं कररुहो । रुक्खाइं रुक्खा। इत्यादि । इति गुणादयः ॥
वेमाञ्जल्याद्याः स्त्रियाम् ॥ ३५॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः ॥ एसा गरिमा एस गरिमा । एसा महिमा एस महिमा । एसा निलंन्जिमा एस निल्लजिमा । एसा धुत्तिमा एस धुत्तिमा ॥ अञ्जल्यादि । एसा अञ्जली एस अञ्जली । पिट्ठी पिटुं । पृष्ठमित्वे कृते स्त्रियामेवेत्यन्ये ।। अच्छी अच्छि । पण्हा पण्हो । चोरिआ चोरिअं । एवं कुच्छी। बली । निही। विही । रस्सी। गण्ठी । इत्यञ्जल्यादयः ॥ गड्डा गड्डो इति तु संस्कृतवदेव सिद्धम् ।। इमेति तन्त्रेण त्वादेशस्य डिमा इत्यस्य पृथ्वादीम्नश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ॥
बाहोरात् ॥ ३६॥ बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओं एक्काए ॥ स्त्रियामित्येव । वामेअरो बाहू ॥
अतो डो विसर्गस्य ॥ ३७ ।। संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति ॥ सर्वतः । सव्वओ ॥ पुरतः । पुरओ ॥ अग्रतः । अग्गओ ।। मार्गतः । मग्गओ ॥ एवं सिद्धावस्थापेक्षया । भवतः । भवओ ॥ भवन्तः । भवन्तो ॥ सन्तः । सन्तो ॥ कुतः । कुदो ॥ .
१ BP °त्यादि व. २ A °त्यादि सं°. ३ P °वाई दे'. ४ B °च्छन्त्यन्ये.