SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ १.३३ ] • वर्गेन्त्यो वा ॥ ३० ॥ i अनुस्वारस्य वर्गे परे प्रत्यासत्तेस्तस्यैव वर्गस्यान्त्यो वा भवति ॥ पङ्को पंको । सो संखो । अङ्गणं अंगणं । लङ्घणं लंघणं । कञ्चुओ कंचुओ । ञ्छणं लंछणं । अञ्जिअं अंजिअं । सञ्झा संझा । कण्टओ. कंटओ । उक्कण्ठा । उक्कंठा । कण्डं कंडं । सण्ढो संढो । अन्तरं अंतरं । पन्थो पंथो । चन्दो चंदो । बन्धवो बंधवो । कम्पइ कंपइ | वम्फइ वंफइ । कलम्बो कलंबो । आरम्भो आरंभो ॥ वर्ग इति किम् । संसओ । संहरइ ॥ नित्यमिच्छन्त्यन्ये ॥ प्राकृतव्याकरणम् । ४३३ प्रावृट् - शरत्तरणयः पुंसि ॥ ३१ ॥ प्रावृष् शरद् तरणि इत्येते शब्दाः पुंसि पुल्लिङ्गे प्रयोक्तव्याः || पाउसो | सरओ । एस तरणी ॥ तरणिशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम् ॥ नमदाम - शिरो नभः ।। ३२ ।। दामन्शिरस्नभस्वर्जितं सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् ॥ सान्तम् । जसो । पओ । तमो | तेओ । उरो || नान्तम् । जम्मो नम्मो | मम्मो || अदामशिरोनभ इति किम् । दामं । सिरं । नहं ॥ यच्च सेयं वयं सुमणं सम्मं चम्ममिति दृश्यते तद् बहुलाधिकारात् ॥ वाक्ष्यर्थ-वचनाद्याः ॥ ३३ ॥ अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः । अर्थाः । अज्ज वि सो सवइ ते अच्छी । नच्चावियाइँ तेणम्ह अच्छी ॥ अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेपि । एसा अच्छी । चक्खू चक्खूइं । नयणा नयणाई | लोअणा लोअणाई ॥ वचनादि । वयणा वयणाई | विज्जुणा विज्जूए । कुलो कुलं । छन्दो छन्दं । १ PB °त्रृट् श°. २ A सान्त. ३ A नान्तः ४ A अक्ष्यर्थ. ५B 'नादिः . ६ B विज्जुए. 28 [ कुमारपालचरित ]
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy