________________
१.२६ . प्राकृतव्याकरणम् ।
दिक्-प्रावृषोः सः॥ १९ ॥ एतयोरन्त्यव्यञ्जनस्य सो भवति ।। दिसा । पाउसो॥
आयुरप्सरसोर्वा ॥ २० ॥ एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अच्छरसा अच्छरा ॥
ककुभो हः ॥ २१ ॥ ककुभ्शब्दस्यान्त्यव्यञ्जनस्य हो भवति ॥ कउहा ॥
धनुषो वा ॥ २२ ॥ धनुःशब्दस्यान्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं धणू ॥
मोनुस्वारः ।। २३ ॥ अन्त्यमकारस्यानुस्वारो भवति ॥ जलं फलं वच्छं गिरिं पेच्छ । कचिद् अनन्त्यस्यापि । वणम्मि । वर्णमि ॥
वा स्वरे मश्च ।। २४ ॥ अन्त्यमकारस्य स्वरे परेनुस्वारो वा भवति । पक्षे लुगपवादो मस्य मकारश्च भवति ॥ वन्दे उसमं अजिअं । उसभमजिअं च वन्दे ॥ बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः ॥ साक्षात् । सक्खं । यत् । जं ।। तत् । तं ॥ विष्वक् । वीसु ॥ पृथक् । पिहं । सम्यक् । · सम्मं ।। इहं । इहयं । आले?अं इत्यादि ।।
' ङ-अ-ण-नो व्यञ्जने ।। २५ ॥ कु बण न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति ॥ है। · पङ्क्तिः । पंती ॥ पराङ्मुखः । परंमुहो ॥ ब । कञ्चुकः । कंचुओ ॥ लाञ्छनम् । लंछणं ॥ ण । षण्मुखः छंमुहो ॥ उत्कण्ठा। उत्कंठा ॥ न । सन्ध्या । संझा ॥ विन्ध्यः । विंझो ।
वक्रादावन्तः ॥ २६ ॥ वक्रादिषु यथादर्शनं प्रथमादेः स्वरस्य अन्त आगमरूपोनुस्वारो
.१ P आले अं. २ B इत्येषां. ३ A अन्ते आ.