SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्राचार्यविरचितं . [ १.१२न श्रदुदोः ॥ १२॥ श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सहहिअं । सद्धा । उग्गयं । उन्नयं ॥ निर्दुरोर्वा ॥१३॥ निर् दुर् इत्येतयोरन्त्यव्यञ्जनस्य वा लुग् भवति ॥ निस्सहं नीसहं । दुस्सहो दूसहो । दुक्खिओ दुहिओ ॥ स्वरेन्तरश्च ॥१४॥ अन्तरो निर्दुरोश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति ॥ अन्त-. रप्पा ॥ निरन्तरं । निरवसेसं ॥ दुरुत्तरं । दुरवगाहं ॥ कचिद् भवत्यपि । अन्तोरि ॥ स्त्रियामादविद्युतः ॥ १५॥ . स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य आत्वं भवति विद्युच्छब्द वर्जयित्वा । लुगपवादः ॥ सरित् । सरिआ ॥ प्रतिपद् । पाडिवआ ।। संपद् । संपआ ॥ बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । सरिया । पॉडिवया । संपया । अविद्युत इति किम् । विज्जू ।। . रो री ॥ १६॥ स्त्रियां वर्तमानस्यान्त्यस्य रेफस्य रा इत्यादेशो भवति । आत्त्वापवादः ॥ गिरा । धुरा । पुरा ॥ क्षुधो हा ॥१७॥ क्षुधशब्दस्यान्त्यव्यञ्जनस्य हादेशो भवति ॥ छुहा ॥ शरदादेरत् ॥१८॥ शरदादेरन्त्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् । भिसओ ॥ १P °न्त्यस्य व्य'. २ A लुग न भवति ३ B °वरि ।. ४ P द्युतं व. 1 A पडि. ६ A राः.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy