________________
प्राकृतव्याकरणम्।
४२९
___उवमासु अपज्जत्तेभ-कलभ-दन्तावहासमूरुजु ।
तं चेव मैलिअ-बिस-दण्ड-विरसमालक्खिमो एहि ॥२॥ अहो अच्छरिअं ॥ एदोतोरिति किम् । अत्थालोअण तरला इअर-कईणं भमन्ति बुद्धीओ । अत्थै चेअ निरारम्भमेन्ति हिअयं कइन्दाणं ।। ३॥
स्वरस्योद्वत्ते ॥ ८॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योवशिष्यते स उद्वृत्त इहोच्यते । . स्वरस्थ उद्वृत्ते स्वरे परे संधिर्न भवति ।। विससिज्जन्त महा-पसु-दसण-संभम-परोप्परारूढा ।
गयणे चिअ ग़न्ध-उडिं कुणन्ति तुह कउल-णारीओ ॥ १॥ निसा-अरो । निसि-अरो । रयणी-अरो । मणुअत्तं ॥ बहुलाधिकारात् कचिद् विकल्पः । कुम्भ-आरो कुम्भारा । सु-उरिसो सूरिसो।। क्वचित् संधिरेव । सालाहणो । चक्काओ ॥ अत एव प्रतिषेधात् समासेपि स्वरस्य संधौ भिन्नपदत्वम् ।।
त्यादेः ॥९॥ . तिबादीनां स्वरस्यं स्वरे परे संधिर्न भवति ॥ भवति इह । होइ इह ॥
‘लुक् ॥ १०॥ स्वरस्य स्वरे परे बहुलं लुग् भवति ॥ त्रिदशेशः । तिअसीसो । निःश्वासोच्छासौ । नीसासूसासा ॥ - अन्त्यव्यञ्जनस्य ॥११॥ शब्दानां यद् अन्त्यव्यञ्जनं तस्य लुग् भवति ॥ जाव । ताव । जसो। तमो । जम्मो । समासे तु वाक्यविभक्यपेक्षायाम् अन्त्यत्वम् अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । संभिक्खू ॥ सज्जनः । सजणो ॥ एतद्गुणाः । एअ-गुणा ॥ तद्गुणाः । तग्गुणा ॥
१ B चेअ. २ A मिलिअ. ३ Bअच्छ च्चिअ. ४ B °भामति. ५ B°यणिभ. ६ B सब्भिक्खू. ७ B सजणो.