________________
२९६
कुमारपालचरिते
लिङ्गु अतत्रउँ जइ नो कृवा । लहर कृवालू निव्वुदि नृवा ॥ ८२ ॥ इअ सव्व-भास-विनिमय-परिहिं परम तत्तु सव् वि कहिवि । निअ-कण्ठ- माल ठवि नृव - उरसि गइअ देवि मङ्गल भणिवि ॥ ८३ ॥
८२. हे नृप यदि कृपा प्राणिषु दया नास्ति तदा लिङ्गं दर्शनिनां वेषधारणम् अतन्त्रम् अप्रधानम् । दुर्गतौ पततः कृपां विना न तेन परित्राणं किमपि भवतीति भावः । ननु कृपापरस्यापि समीहितसिद्धिर्न भविष्यतीत्याह । कृपालुः निर्वृतिं लभते समासादयति । सुमनोरमा छन्दः ॥
इह अपभ्रंशोदाहरणेषु क्वापि क्वापि पूर्वे लिङ्गव्यभिचारो दर्शितोस्ति अतस्तत्सिद्धयर्थम् अत्र “लिङ्गम् अतन्त्रम्” [४४५] इति लक्षणं वचोभङ्गयन्तरेण उक्तम् ॥
निव्वुदि । "शौरसेनीवत् " [४४६ ] इत्यनेन अपभ्रंशे शौरसेनीवत् कार्यम् । अतः " तो दोऽनादौ शौरसेन्याम् ” [ ४.२६०] इत्यादिना तस्य दः । एवम् अन्यदपि ऊह्यम् ॥
अपभ्रंशभाषा समाप्ता ॥
८३. अधुना श्रुतदेवताया उपदेशं समर्थयन् स्थानगमनपूर्व च तस्याः परमार्हतश्रीकुमारपाल भूपतिं प्रति प्रसादातिशयं प्रकटयन् तदुदीरितमङ्गलव्याजेन च महाकाव्यपरिसमाप्तौ प्रन्थकारो मङ्गलम् आह । इति पूर्वोक्तयुक्त्या सर्वभाषाणां प्राकृतादिभाषाणां विनिमया व्यत्ययाः । परिहिं इति शीघ्रादित्वात् गीतयस्ताभिः कृत्वा सर्वमपि परम
१ C निवृतिं .