________________
[ है. ८.४,४४८] सप्तमः सर्गः ।
२९७ तत्त्वं कथयित्वा निजकण्ठमालां च नृपोरसि श्रीकुमारपालभूपकण्ठकन्दले स्थापयित्वा विन्यस्य देवी श्रुतदेवतामङ्गलं त्वं जिनप्रवचनप्रोत्सर्पणां कुर्याश्चिरं नन्द्या इत्यादि श्रेयोभिधायकं वाक्यं भणित्वा निजभुवनं संप्राप्ता ॥
प्राकृतादिभाषाकार्याणाम् अन्योन्यं तेषु तेषु प्रागुदाहरणेषु विनिमयो दर्शितः। स च न सूत्रं विना सिध्यति । अतः विनिमयतिपदेन पर्यायान्तरेण " व्यत्ययश्च" [ ४४७ ] इति सूत्रं विनिमयार्थम् उक्तम् ॥
उरसि । “शेषं संस्कृतवत् सिद्धम् ” [४४८] । शेषं यद् अत्र प्राकृतादिभाषासु अष्टमाध्याये नोक्तं तत् सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् । अतः यथा उरस्शब्दस्य ड्याम् उरे उरम्मि भवतः तथा क्वचिद् एतदपीति । एवम् अन्योदाहरणेष्वपि रूपविशेषो ज्ञेयः ॥ अष्टमस्याध्यायस्य उदाहरणप्रतिपादनद्वारेण चतुर्थः पादः संपूर्णः ॥ एवं च व्याकरणाष्टमाध्यायलक्ष्यभूताः प्राकृतादिभाषाः समर्थिताः ।।
.. इति शुभम् ॥ .. इत्याचार्यश्रीहेमचन्द्रविरचितश्रीकुमारपालचरितप्राकृतयाश्रयमहाकाव्यवृत्तौ
__अष्टमः सर्गः समाप्तः ॥ तत्समाप्तौ च समाप्तं चेदं वृत्तितः प्राकृतयाश्रयमहाकाव्यम् ।।
संतापापहदर्शनं शिवकलादानोदिताशंसनं विश्वार्ष्यामृतदायिपादभजनं रत्नाकरानन्दनम् ।
श्रीकल्पद्रुमसोदरं कुवलयामोदप्रमोदोद्धरं कामोद्भासि कुरङ्गहारि सकलं भात्यत्र चान्द्रं कुलम् ॥ १ ॥ __ तस्मिन् सोभयदेवसूरिरभवत् क्लुप्ताङ्गवृत्तिस्ततः संविग्नो जिनवल्लभो युगवरो विद्यालिताराम्बरम् । - तत्पट्टे जिनदत्तयोगितिलकः सन्मार्गपद्मार्यमा ख्यातः श्रीजिनचन्द्रसद्गुरुरतः सौभाग्यभङ्गयेकभूः ॥ २॥