________________
२९४
कुमारपालचरिते . अन्तु करोप्पि निरानिउ कोहहों अन्तु करेप्पिणु सव्वह माणहों । अन्तु करेविणु माया-जालहों
अन्तु करेवि नियत्तसु लोहहों ॥ ७७॥ जइ चएवं मणसि संसारु सिव-सुक्ख भुञ्जण तुरिउ । तो किर सङ्गु मुश्चणहिं करि मणु । तह सुह गुरु सेवणहं निम्ममत्तु अइ-दढु करेविण ॥ ७८.॥ चित्तु करेवि अणाउलउँ वयणु करेप्पि अचप्पलउं । । कम्मु करेप्पिणु निम्मलउँ झाणु पजुञ्जसु निचलउं ॥७९॥
७७. निरानिउ इति निश्चितम् क्रोधस्य अन्तं विनाशं कृत्वा सर्वस्य मानस्य अन्तं कृत्वा मायैव जालं सुगतिगमननिरोधकत्वात् आनायः तस्य अन्तं कृत्वा लोभस्य अन्तं कृत्वा निवर्तस्व तिष्ठ । कषायरहितो भवेति भावः । वदनकं छन्दः ॥ ___ करेप्पि । करोप्पिणु । करेविण । करेवि । “एप्प्येप्पिण्वेव्येविणवः"[४४०]॥
७८. यदि संसारं त्यक्तुं मन्यसे अभिलषसि शिवसौख्यं च भोक्तुं संवेदयितुं त्वरितः उत्सुकः तदा किल इति आप्तवादे । सङ्गं पुत्रभित्रकलत्रादिस्वजनसंबन्धं मोक्तुं तथा शुभं गुरुं सेवितुं निर्मम त्वं च कर्तुं मनः अतिदृढम् अतिनिश्चलं कुरु । निर्ममत्वं वा अतिदृढम् अतिनिश्चलं कर्तुं मनः कुरु । अभिलषस्वेत्यर्थः । एवं मनसि कृते संसारोच्छेदो मुक्तिप्राप्तिश्च ध्रुवं भविष्यतीति भावः। मात्रा छन्दः ॥
७९. चित्तम् अनाकुलं विषयैः अनुपप्लतं कर्तुं वचनम् अचप्पलउं इति सत्यं कर्तुम् कर्म कायव्यापारं निर्मलं निष्पापं कर्तुम् ध्यानं निश्चलं - १ विरोधकत्वात्.