________________
[हे. ८.४.४३९] अष्टमः सर्गः ।
२९३ . भल्लत्तणु जइ महर्सि' भल्लप्पणु पसमेण ।
जइ करिएव्वउं पसमु विजउ तो करेल्वउं करणीं । जइ अ करेवा करण-विजउ तो मणु निच्चलु धरहु । निच्चलु मणु पुणु धरहु करिउ जउ राग-दोसहँ । तह विजउ करहि रागाइअहं अविचलु सामाइउँ करिवि । अविचलु सामाइउँ करहि निम्ममत्तु निम्मलु करवि ॥७६॥
• ७६. भल्लेति शीघ्रादित्वात् भद्रम् तस्य भावो भद्रत्वम् भद्रता वा । गदि त्वं काङ्गसि तदा भद्रत्वं प्रशमेन लभसे । ननु स एव नास्ति अतस्तदुपायो वाच्य इत्याह । यदि प्रशमः कर्तव्यस्तदा करणानां विजयः कर्तव्यः । ननु तद्विजयेप्युपायं न विद्म इत्याह । यदि च करणविजयः कर्तव्यस्तदा मनो निश्चलं विषयेषु अगामुकं यूयं धरत बिभृत । ननु तत् स्थिरं कथं बिभृम इत्याह । रागद्वेषयोर्जयं कृत्वा मनः पुनः निश्चलं धरत । रागद्वेषजय एव. मनोनिश्चलताकारणम् इत्यर्थः । ननु तद्विजयमपि कथं करोमीत्याह ।तथा अविचलं सामायिकं कृत्वा रागादीनां विजयं कुरु । ननु तदपि कथं रचयामीत्याह । निर्ममत्वं निर्मलं कृत्वा अविचलं सामायिकं कुरु । एकस्मिन्नपि वृत्ते हेतुहेतुमद्भतानि • बहूनि वाक्यानि । तेषु च संबोध्यस्य सामान्यविवक्षया एकत्वं विशेषविवक्षया च बहुत्वम् इति तक्रियायामपि काङ्गसि धरतेत्यादौ एकवचनबहुवचनानि न विरुद्धानीति । वस्तुवदनककर्पूरयोर्योगे साँध छन्दः।।
भल्लप्पणु । " त्व-तलोः प्पणः” [४३७]॥ प्रायोधिकारात् भलत्तणु ॥ :- करिएव्वउं । करेव्वउं । करेवा । " तव्यस्य इएव्वउं-एव्वउं-एवाः " [४३८] ॥
लहि । करिउ । करिवि । करवि । "क्त्व इ-इउ-इवि-अवयः"[४३९]॥
१.D °महसि लहसि लहसि भल्लप्पणु. २B °हउं; C °हउ. ३D सार्धच्छंदः