________________
।
२९३
कुमारपालचरिते ... पईठी कनि जिणागमहों वत्तडिआ वि हु जासु । अम्हारउँ तुम्हारउँ वि एहु ममत्तु न तासु ॥ ७४ ॥ जीवु जित्तुलु जिअइ जिय-लोइ जइ तित्तुलु दम करइ । गणइ विहवु एत्तुलु न केत्तुलु तो इत्तहे नाणु लहि जाइ लोइ तेत्तहि निरुत्तउ ॥ ७५ ॥ . ...
७४. यस्य कर्णे जिनागमस्य वार्तिकापि वचनमात्रमपि प्रविष्टा श्रुता. तस्य पुरुषस्य एतत् इदं वस्तु अस्मदीयम् एतद् युष्मदीयमपि । अपिः स्वार्थे । एवं न ममत्वं प्रतिबन्धो भवति ।।
पईठी। "स्त्रियां तदन्ताड्डीः''[४३१]इति प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो डी:। वत्तडिआ। “आन्तौन्ताड्डाः'' [४३२] इति डौः । “अस्येदे"[४३३]इति अस्य इः॥
अम्हारउं । तुम्हारउं । “युष्मदादेरीयस्य डारः" [४३४] ॥
" ७५. जीवो यावन्तं कालं जीवति जीवलोके यदि तावन्तं कालं दम करोति विभवं च एतावत् कियत् न गणयति । तृणायापि न मन्यत इति भावः । तदा अत्रैव ज्ञानं लब्ध्वा तत्र लोके सिद्धलोके निरुत्तउ इति निश्चितम् याति । निर्वृतो भवतीत्यर्थः । मात्रानामकं छन्दः ॥
जित्तुलु । तेत्तुलु । एत्तुलु । केत्तुलु ! “ अतोडैत्तुलः' [ ४३५ ] ॥ .... एत्तहे । तेत्तहे । “ त्रस्य डेत्तहे " [ ४३६ ] !!
१८ पइट्टी. २ BC पइट्ठी. ३ All the three MSS. read- स्त्रियां सदंताड्डा इति अप्रत्ययांताड्डाः । तदंताच्च । before " अस्येदे" instead of Satra 482,